________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
स्वयं भुङ्क्ते । अप्रतिश्रवणं प्राग्वद्, नवरं प्राग् रात्रौ सुप्तजागरितपृच्छाविषयम् इह तु सामान्येन । 'खद्धत्ति'-अत्ति गुरुं प्रति | बहुकर्कशोच्चैः स्वरं वक्ति । आलापितः स्वस्थानस्थ एव प्रत्युत्तरयति । गुर्वाहूतः किमिति वक्ति । गुरुणा नोदितस्तज्जातेन प्रतिहन्ति, यथा कुतो ग्लानादेवैयावृत्यं न करोषीत्युक्तो वक्ति त्वमेव किं न करोषि । गुरोः कथां कथयतो न सुमनाः स्यात् किन्तु विमनाः गुरुं सूत्रादिकं वदन्तमेवं वक्ति, यथा न स्मरसि त्वमेतमर्थं, न चैषोऽर्थ एवं भवति । गुरौ कथां कथयति तां कथामाच्छिनत्ति यथाहं कथयामीति । पर्षदं भिनत्ति यथा सम्प्रति भिक्षावेलेत्यादि । कथनेन अनुत्थितायां पर्षदि गुरूक्तामेव कथां स्वस्य पाटवादिज्ञापनाय सविशेषं कथयति । शय्यासंस्तारकादि पादाभ्यां घट्टयति । गुरुशय्यादौ स्थानादि करोति । गुरोः सकाशादुच्चासनः । एवं समासनः । आवश्यकचूादौ तु गुरौ कथां कथयति एवमेतदित्यन्तराले शिष्यस्य वचनमाशातना पृथगुक्ता । गुरोः पार्वादुच्चसमासनत्वं चैकैव इति त्रयस्त्रिंशद् गुर्वाशातनाः । गुर्वाशातना चैवं त्रिधा । गुरोः पादादिनां सङ्घट्टादौ जघन्या । श्लेष्मनिष्ठीवनलवस्पर्शनादौ मध्यमा । गुर्वादेशाऽकरणविपरीतकरणापकर्णनपरुषभाषणादावुत्कृष्टा ३। स्थापनाचार्यस्येतस्ततश्चालनपादस्पर्शादौ जघन्या, भूमिपातनावज्ञामोचनादौ मध्यमा, प्राणाशनभङ्गादावुत्कृष्टा । एवं ज्ञानोपकरणवत् दर्शनचारित्रोपकरणस्य रजोहरणमुखवस्त्रिकादण्डकदण्डिकादेरपि । 'अहवा नाणाइ तिअं' गु. वं. भा. २८ इति वचनाद् गुरुस्थाने स्थाप्य-त्वेनाविधिव्यापारणादधिका तदाशातनापि वा । यदुक्तं श्रीमहानिशीथे-अविहीए निअंसणुत्तरियं रयहरणं । दण्डगं वा परिभुंजे चउत्थं इति । अध्य० ७ सू० २३ पत्र १२८ संपा० पुण्यवि० तेन श्राद्धैश्चरवलकमुखवस्त्रिकादेविधिनैव व्यापारणस्वस्थान
AAAAAAAAAAAAA
२०१