________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
धरणरणरुअणविगहातिरिबंधणरंधणाइ गिहकिरिआ । गालीविज्जवणीज्जाइ चेइए चयणुचिअवित्ती ॥ आशातनाश्चात्यन्तविषयिणः सतताविरता देवा अपि देवगृहादौ सर्वथा वर्जयन्ति । उक्तं हिदेवहरयम्मि देवा, विसयविसविमोहिआवि न कयावि । अच्छरसाहिं पि समं, हासकड्डाइवि कुणंति ॥ गुर्वाशातनाश्च त्रयस्त्रिंशद्, यतःपुरओ पक्खा-सन्ने गंता चिट्ठण-निसीअणा-यमणे । आलोयणा पडिसुणणे पुव्वालवणे अ आलोए । तह उवदंस निमंतण खद्धाययणे तहा अपडिसुणणे । खद्धत्ति अ तत्थगए कि तुम तज्जाय नो सुमणे ॥ नोसरसि कहंछित्ता परिसंभित्ता अणुट्ठिआइ कहे । संथारपायघट्टण चिट्टच्च समासणे आवि ॥
गुरोः पुरतो गमने आशातना, यतो मार्गोपदर्शनादिकं तादृक्कारणं विना गुरोः पुरतो गन्तुं न कल्पते, अविनयदोषप्रसङ्गात् । पार्श्वतो गन्ता तदाप्यविनयदोषः । पृष्ठतोऽप्यासन्नं गन्ता तदा कासितक्षुतादिषु श्लेष्माद्यवयवलगनादिदोषः । एवमन्यत्रापि दोषा वाच्याः । एवं स्थाननिषदनाभ्यामपि प्रत्येकं तिस्रस्तिस्र आशातनाः । आहारग्रहणादौ प्रथममाचमनं करोति । गमनागमनविषयं पूर्वमालोचनम् । रात्रौ कोऽपि जागर्तीति गुरूक्ते श्रुतेऽपि निद्रादिमिषेण प्रत्युत्तरादानम् । किञ्चिदालाप्यं गुरोः पूर्वमालापयति । आहारादिकं (अशनादिकं) प्राक् साध्वन्तराणामालोचयति, ततो गुरोः । एवमुपदर्शयति अशनादिभिः पूर्वमन्यान्निमन्त्रयति ततो गुरून् । 'खद्धत्ति' गुरुमनापृछ्य स्वेच्छयाऽन्यस्मै स्निग्धमधुरादि दत्ते । 'आइअणेत्ति' गुरोर्यत् किञ्चिद् दत्त्वा स्निग्धादि यथेष्टं |
. . . . . .
. . .
२००