________________
प्रथमः
प्रकाशः
१९९
1111
श्राद्धविधि
तिरस्कारार्थं रेकारं करोति । लभ्यद्रव्ययाचनाद्यर्थं धरणम् । रणं सङ्ग्राम् । विवरणं-वालानां विजटीकरणम् । पर्यस्तिकाकरणम् । पादुका काष्ठादिमयं चरणरक्षणोपकरणम् । पादयोः - प्रसारणं स्वैरं निराकुलतायाम् । सुखार्थं पुडपुडीदापनम् । प्रकरणम् पङ्कं - कर्दमं करोति निजदेहावयवक्षालनादिना । रजो धूलीं तत्र पादादिलग्नां शाटयति । मैथुनं कामक्रीडाम् । यूकांमस्तकादिभ्यः क्षिपयति, वीक्षयति वा । जेमनं - भोजनम् गुह्यं लिङ्गं तस्यासंवृतस्य करणम् । 'जुज्झं' इति पाठे तु युद्धं | हग्बाह्वादिभिः । वैद्यकम् । वाणिज्यं क्रयविक्रयादिरूपम् । शय्यां कृत्वा तत्र स्वपिति । जलं पानाद्यर्थं तत्र मुञ्चति पिबति वर्षासु कुट्टिमप्रणालादौ सङ्गृह्णाति वा तथा मज्जनस्थानं तत्र करोति ॥४॥
इत्युकर्षतश्चतुरशीत्याशातनाः ।
बृहद्भाष्ये तु पञ्चैवाऽऽशातनाः प्रोक्ता यथा
जिणभवणंमि अवन्ना पूआइअणायरो तहा भोगो । दुष्पsिहाणं अणुचिअवत्ती आसायणा पंच ॥ तत्थअवन्नासायण, पल्हत्थिअदेवपिट्ठिदाणं च । पुडपुडिअपयपसारणदुट्ठासणसेवणजिणग्गे ॥ जारिसतारिसवेसो, जहा तहा जम्मि तम्मि कालम्मि । पूआइ कुणइ सुन्नो, अणायरासायणा एसा ॥ भोगो तंबोलाइ, कीरंतो जिणगिहे कुणइवस्सं । नाणाइआण आयस्स सायणं तो तमिह वज्जे ॥ रागेण व दोसेण व, मोहेण व दूसिआ मणोवित्ती । दुप्पणिहाणं भन्नइ, जिणविसए तं न कायव्वं ॥