________________
प्रथम:
प्रकाशः
अर्वाग् विधत्ते, शेषां तु पश्चादपि यथायोगम् । एवं धर्मशालागुरुज्ञानादेरपि यथोचितचिन्तायां सर्वशक्त्या यतनीयं, नहि.
श्राद्धविधिदेवगुर्वादीनां श्रावकं विनाऽन्यः कश्चित् चिन्ताकर्ताऽस्ति, ततो ब्राह्मणसाधारणधेनोरिव नैव तेषां यथार्हचिन्ताविधावुपेक्षा प्रकरणम् शिथिलादरता वा कार्या, तथा सति सम्यक्त्वस्यापि संशयापत्तेः । सा हि का नामाऽर्हदादेर्भक्तिर्यस्यामाशातनादावपि नात्यन्तं दूयते । श्रूयते हि लोकेऽपि ईश्वरस्योत्पाटितां दृष्टिं दृष्ट्वाऽतिदूनः पुलिन्दः स्वाक्षि ददौ । तस्मात् स्वजनादिकृत्येभ्योऽप्यत्यन्ताऽऽदृत्या चैत्यादि-कृत्ये नित्यं प्रवर्तितव्यम् । अवोचाम च
देहे द्रव्ये कुटुम्बे च सर्वसंसारिणां रतिः । जिने जिनमते सङ्के पुनर्मोक्षाभिलाषिणाम् ॥
आशातनाश्च ज्ञानदेवगुर्वादीनां जघन्यादिभेदात् त्रिविधा, तत्र जघन्या ज्ञानाशातना पुस्तक-पट्टिका-टिप्पनिका-जपमालादेर्वदनोत्थनिष्ठीवनलवस्पर्शः, हीनाधिकाक्षरोच्चारः, ज्ञानोपकरणे समीपस्थे सत्यधोवातनिसर्ग इत्यादि १, मध्यमा अकाले पठनादिः, उपधानतपो विना सूत्राध्ययनं, भ्रान्त्याऽर्थस्यान्यथा कल्पनं, पुस्तकादेः प्रमादात् पादादिस्पर्शः, भूमिपातनं, ज्ञानोपकरणे पार्श्वस्थे सत्याहारग्रहणं, निरोधकरणमित्यादि २, उत्कृष्टा तु निष्ठ्यूतेन पट्टिकादेरक्षरमार्जनम्, उपर्युपवेशनशयनादिः, ज्ञानोपकरणेऽन्तिकस्थे उच्चारादिकरणं, ज्ञानस्य ज्ञानिनां वा निन्दाप्रत्यनीकतोपघातकरणम् उत्सूत्रभाषणं चेत्यादि ३ ।
जघन्या देवाशातना, वासकुम्पिकाद्यास्फालन-श्वासवस्त्राञ्चलादिस्पर्शाद्या १। मध्यमा अधौतपोतिकया पूजनं भूमिपातनाद्याः २। उत्कृष्टा चरणघट्टन-श्लेष्मनिष्ठ्यूतादिलवस्पर्शन-प्रतिमाभङ्ग-निर्गमन-जिनाऽवहीलानाद्याः ३।