________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAA AAAAAAAAAAAAAAAAA
समये सुताय राज्यं प्रदाय देव्यादिभिः सहादाय । व्रतमार्हतभक्त्यैकाग्रयाददर्हत्कर्म सोऽर्जितवान् ॥१५३॥ स्वायुलक्षपूर्वी भुक्त्वा सोऽभूत् सुरः सहस्रारे । अर्जितगणभृत्कर्मा मुख्या राज्योऽपि च चतस्त्रः ॥१५४॥ च्युत्वा च विदेहान्तः स तीर्थकृद्भूय शिवसुखं लेभे । गणभृद्भावमिताभिस्ताभिः सममहह ! सहयोगः ॥१५५॥ इत्यवेत्य जिनभक्तिसम्भवं वैभवं नृपतिधर्मदत्तवत् । तद्विधौ शुभविधौ सचेतसः सन्तु सन्ततनिबद्धचेतसः ॥१५६॥ इति विधिदेवपूजायां धर्मदत्तनृपकथा ॥
सूत्रगाथायां उचिअचिंतरओ इत्युक्तं, तत्र उचितचिन्ता चैत्यप्रमार्जनं, विनश्यच्चैत्यप्रदेशपूजोपकरणसमारचनं, प्रतिमापरिकरादिनैर्मल्याऽऽपादनं, विशिष्टपूजाप्रदीपादिशोभाऽऽविर्भावनं, वक्ष्यमाणाशातनानिवारणम्, अक्षतनैवेद्यादिचिन्ता, चन्दनकेशरधूपदीपतैलसङ्ग्रहो, वक्ष्यमाणदृष्टान्तविनश्यच्चैत्यद्रव्यरक्षा, त्रिचतुराद्याऽऽस्तिकसाक्षिकं तदुद्ग्राहणिका, तत्सुस्थानसुयत्नस्थापनं, तदायव्ययादौ सुव्यक्तं लेख्यकं स्वयं परैश्च द्रव्यार्पण द्रव्यायप्रवर्त्तनविधिना तदुत्सर्पणं, कर्मस्थायकरणं, कर्मकरचिन्ता चेत्यादिरनेकविधा । तत्राढ्यस्य द्रव्यपरिजनादिबलसाध्या चिन्ता सुकरा, अनाढ्यस्य तु स्ववपुः-कुटुम्बादिसाध्या । यस्य च यत्र यथा सामर्थ्य, स तत्र तथा विशेषतः प्रयतते । या च चिन्ता स्वल्पसमयसाध्या, तां द्वितीयनषेधिक्या
१. देवदायप्रवर्तन इति को० ह० पाठः । २. कर्मस्थायककारणं इति को० ह० प्र० पाठः ।
१९४