________________
प्रथमः
प्रकाशः
१९३
चचच
तत् खचररचितदिव्योत्सवैश्चतस्त्रोऽपि ताः स परिणिन्ये । निन्ये च खचरपतिना वैताढ्ये सकलराजकयुक् ॥ १४१ ॥ स्वसुतां राज्यं च ददे स धर्मदत्ताय तत्र चित्रमहैः । विद्यासहस्त्रमस्य च तदादि खचरार्पितं सिद्धम् ॥१४२॥ तत्प्रमुखखचरदत्ताः स कनी: पाणौ चकार पञ्चशतीम् । क्रमतः स्वपुरं प्राप्तस्त्ववनीशकनीश्च पञ्चशतीम् ॥१४३॥ प्राज्यनिजराज्यसंपत् पित्रा चित्रावहैर्महैस्तदनु । पुत्रे सुगुणक्षेत्रे न्ययोजि वल्लीव वृद्धिकृते ॥१४४॥ जगृहे चाग्रमहिष्या सह दीक्षा तस्य चित्रगतिसुगुरोः । पार्श्वे स्वहितं को वा कवचहरे सुतवरे न चरेत् ॥१४५॥ आपृच्छ्य धर्मदत्तं विचित्रगतिनाऽप्यभाजि यतिधर्मः । चित्रगतिविचित्रगती पितरौ चामुष्य मोक्षमगुः ॥ १४६ ॥ अथ धर्मदत्तनृपतिर्लीलासाधितसहस्त्रदेशनृपः । दशदशसहस्त्रगजरथदशगुणहयकोटिपत्तिपतिः ॥ १४७ ॥ बहुविधविद्यामाद्यत्सहस्रविद्याधराधिपनिषेव्यः । त्रिदशेन्द्र इव प्राज्यं साम्राज्यं स बुभुजे सुचिरम् ॥१४८॥ युग्मम् । स्मृतिमात्रागच्छत्प्राक्प्रसन्नदेवेन देवकुरुभूवत् । तद्भूर्विदधे मारीत्यवमव्याध्यादिवारणतः ॥१४९॥ प्राग्दशशतदलकमलार्हदर्चयेदृक्समृद्धिसुखितोऽपि । त्रिर्विधिपूजादिविधौ दधौ स धौरेयतामधिकम् ॥ १५०॥ पोष्यः स्वकोपकारीत्येष विशेषात् पुपोष जिनभक्तिम् । नवनवचैत्यप्रतिमायात्रास्नात्रादिभिः कृत्यैः ॥ १५१ ॥ राजा यथा तथा स्यात् प्रजेति जिनधर्ममाश्रयन् प्रायः । अष्टादशवर्णा अपि भवद्वयेऽभ्युदयितां च ततः ॥ १५२ ॥
AAAAAAJ
श्राद्धविधिप्रकरणम्