________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
अथ च-पूर्वादिदिक्षु देशाधिपनृपतीनामतीव बहुमान्याः । बहुपुत्रोपरि पुत्र्योऽभवन् क्रमात्ताः कनीजीवाः ॥१२८॥ धर्मरतिधर्ममतिधर्मश्रीधर्मिणी च सत्याह्वाः । पञव चतूरूपा तास्तारुण्योद्गमेऽथ बभुः ॥१२९॥ ताः कुतुकाज्जिनसदनेऽन्यदिने सदनेकसुकृतमहसदने । प्राप्तास्त्वहत्प्रतिमा प्रेक्ष्याऽस्मार्षुर्निजां जातिम् ॥१३०॥ अथ ता विना जिनार्चा भुक्तिं नित्यं नियम्य जिनभक्तिम् । कुर्वाणाः प्राक्परिचितवरार्थमभिजगृहुरेकहृदः ॥१३१॥ तद् ज्ञात्वा प्राग्देशाधिपः स्वपुत्र्याः स्वयंवरं प्रवरम् । कारयति स्माऽऽकारयति स्माऽऽखिलराजकं तस्मिन् ॥१३२॥ राजधरस्य सपुत्रस्याह्वानेऽपि हि न धर्मदत्तोऽगात् । ईदृशि कः सन्दिग्धे मेधावी धावतीति धिया ॥१३३॥ अथ च-निजजनकसद्गुरुगिरा व्रतार्थी विचित्रगतिखगराट् । एकसुताभृद्राज्याहँ प्रज्ञप्तिमपरिपृच्छत् ॥१३४॥ सा प्राह देहि राज्यं सुतां च योग्याय धर्मदत्ताय । मुदितः स ततस्तस्याह्वानार्थमवाप राजपुरम् ॥१३५॥ सम्यक् स्वयंवरस्य व्यतिकरमवबुध्य धर्मदत्तमुखात् । तं नीत्वाऽगात्कुतुकात् स्वयंवरे स सुरवददृश्यः ॥१३६॥ तत्र च चित्रकरे तौ स्वयंवरे राजकन्यया मुक्तान् । श्याममुखान् मुषितानिव निखिलनृपान् ददृशतुरदृश्यौ ॥१३७॥ अथ किं भावीत्यखिलेष्वाकुलचित्तेषु धर्मदत्तं द्राग् । सारुणमिव तरुणरविं स्वयुतं प्राचीकटत् खगराट् ॥१३८॥ तं प्रेक्ष्यैव प्रीता सा वने रोहिणीव वसुदेवम् । प्राक्प्रेमाप्रेमाणौ प्रेरयतः स्वयमुचितकृत्ये ॥१३९॥ दिकायदेशेशनृपास्तत्राप्ताः स्वस्वपुत्रिकां खचरात् । आनाययन् विमानैर्मुदिताश्च ददुस्तदैवाऽस्मै ॥१४०॥
१२