________________
प्रथमः
प्रकाशः
१९१
दूनः परं जिनार्चायोगवियोगात् फलाद्यपि स नादत् । तदहनि पापक्षपणं ससर्ज किल निर्जलं क्षपणम् ॥११७॥ शीतलजलविविधफलप्राचुर्येऽप्यस्य सीदतोऽप्युच्चैः । क्षपणत्रयमित्यासीत् स्वनियमधर्मैकदृढता हो ! ॥ ११८ ॥ म्लानतमेऽप्यथ लूकाविलुप्ततममाल्यवत्तदीयेऽङ्गे । चित्ते त्वम्लानतमे प्रादुर्भूयाऽवदत् त्रिदशः ॥११९॥ अयि ! साधु साधु साधो ! दुःसाधमसाधय इमं नियमम् । निजजीवितानपेक्षा नियमापेक्षा तवैवैवम् ॥१२०॥ युक्तं व्यक्तं चक्रे शक्रः श्लाघां तवाऽसहिष्णुस्ताम् । पर्यैक्षे ते 'कक्षां कक्षान्तरिहापहृत्यैवम् ॥१२१॥ तव दृढतयाऽस्मि तुष्टः शिष्टमते ! स्वेष्टमेकवाक्येन । याचस्व विचार्यैषोऽप्यूचे कुर्याः स्मृतः कार्यम् ॥१२२॥ अद्भुतभाग्यनिधिर्ध्रुवमयमेवं यद् वशीकृतोऽस्म्यमुना । इति चिन्तयंस्तदुदितं प्रतिपद्य सपद्यगात् त्रिदशः ॥ १२३ ॥ स्वपदप्राप्त्याऽद्य मे कथमथ भवितेति चिन्तयेद् यावत् । तावन्नृपसूः प्रेक्षामास स्वावासमध्ये स्वम् ॥१२४॥ अप्यस्मृतेन संप्रति नियतममर्त्येन तेन निजशक्त्या । मुक्तोऽस्मिन्नस्मि पदे तुष्टस्य सुरस्य कियदेतत् ? ॥१३५॥ राजतनुजः स्वजनान् निजसङ्गमतो निजं परिजनं च । प्रीतान् साम्प्रतमतनोद् राजानमपिप्रीणच्चित्तम् ॥१२६॥ तस्मिन् दिनेऽप्यनुत्सुकतयैव विधिवद् विधाय जिनपूजाम् । कृतवान्नृपसूः पारणमहो विधिर्धर्मनिष्ठानाम् ॥१२७॥
१. प्रतिज्ञा ।
श्राद्धविधिप्रकरणम्