________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
उक्तं विना न वृद्धिर्वित्ते दत्तेऽपि बहुतरेऽपि चिरात् । प्रोक्ते तु प्रत्यहमप्येवं धर्मेऽपि नियमोक्तौ ॥१४॥ श्रेणिकवत्तत्त्वविदोऽप्यविरत्युदये हि न नियमप्राप्तिः । तत्प्राप्तावपि विधुरे दृढता त्वासन्नतरसिद्धेः ॥१५॥ प्राक् प्रेम्णा बहुमानान्नियमोपगमोऽस्य मासिकस्यापि । ह्यस्तु तदा जिनदर्शननतिकृतितः स्तन्यमापपिवान् ॥१६॥ अद्यः पुनस्तदयोगात् सीदन्नपि न दृढहृत् पपौ स्तन्यम् । अस्मगिरा त्वभिग्रहपूर्तेः पातुं प्रववृतेऽपि ॥१७॥ यत्प्राग् जन्मनि विहितं विधित्सितं वा शुभाशुभं सर्वम् । तज्जन्यतेऽन्यजन्मनि जन्मयुजामग्रजन्मेव ॥१८॥ अप्यव्यक्तप्राक्तनजिनभक्तेर्महिमतोऽस्य महिमवतः । सर्वाङ्गीणसमृद्धिश्चित्रसवित्री किल भवित्री ॥१९॥ कन्याजीवाश्च दिवश्च्युताः पृथक् प्रौढनृपकुलायाताः । राज्योऽस्यैव भवित्र्यः सहसुकृतकृतां हि सहयोगः ॥१०॥ इति यतिगिरा तथा शिशुतन्नियमसमीक्षया क्षितीशाद्याः । सनियमधर्मधुरायां दधिरे धौरेयतां नितराम् ॥१०१॥ पुत्रप्रतिबोधकृते विहाराम्यहमित्युदीर्य गुरुवीर्यः । यतिरुत्पपात वैताढ्यं प्रति विनतातनुज इव ॥१०२॥ जातिस्मरस्त्रिजगदाऽऽश्चर्यसृजाऽतिस्मरः स्वरूपद्धा । मुनिवन्नियमं निर्वाहयन्निमं स क्रमाद्ववृधे ॥१०३॥ प्रावर्द्धत प्रतिदिनप्रवर्द्धमानप्रधानतनुयष्टेः । स्पर्धादिव लोकोत्तररूपादिगुणोत्करस्तस्य ॥१०४॥ धर्मस्त्वस्य गुणानपि गुणीकरोति स्म सुप्रसारितया । न्ययमयदनं यदयं विना जिनार्चा त्रिवर्षोऽपि ॥१०५॥
१८९