________________
प्रथमः
प्रकाशः
१८७
धन्योऽप्यर्हद्भक्तेः सौधर्मेऽभून्महर्द्धिकस्त्रिदशः । जातास्ताश्च चतस्रः क्रमात्कुमार्योऽस्य मित्रसुराः ॥७१॥ नृपदेवश्च्युत्वाऽभूद्वैताढये गगनवल्लभे नगरे । सुरनगरे सुरपतिवच्चित्रगतिः खेचराधिपतिः ॥७२॥ सचिवसुरश्च्युत्वाऽस्य च पुत्रः पित्रोः परप्रणयपात्रम् । जातोऽस्ति विचित्रगतिर्नाम्ना धाम्नाऽपि पितुरधिकः ॥७३॥ स प्राज्यराज्यलोभाऽभिभूतहृदयोऽन्यदा पितृनिहत्यै । गूढदृढमन्त्रमाधात् धिग् धिग् लोभान्ध्यमपि सूनोः ॥७४ || दैवात्तु गोत्रदेव्यादेशादवगत्य गूढमन्त्रं तम् । आत्यन्तिकमाकस्मिकभयेन वैराग्यमाप नृपः ॥७५॥
हा किं कुर्वे किं वा शरणीकुर्वे ब्रुवेऽथ किं कस्य । अकृतसुकृताः सुतादपि पशुमृतिमाप्ताऽस्मि कुगतिमपि ॥७६॥ अद्यापि चेतये वेत्यालोच्य स पञ्चमुष्टिकृतलोचः । सुरदत्तव्रतिलिङ्गः द्राग् व्रतमादत्त सत्तमधीः ॥७७॥ क्षमितश्चानुशययुजाऽऽत्मजेन राज्यार्थमर्थितोऽत्यर्थम् । तं व्रतहेतुं शंसन्निसङ्गः पवनवद् व्यहरत् ॥७८॥ यतिचर्ययाऽस्य चरतस्तपांसि चरतश्च दुस्तपान्युदभूत् । ज्ञानं तृतीयमेतत् स्पर्धादिव तत्तुरीयमपि ॥७९॥ ज्ञानाद् ज्ञात्वा लाभं सोऽहं मोहं व्यपोहितुं भवताम् । अत्राऽऽगमं समग्रं कथयाम्यथ शेषसम्बन्धम् ॥८०॥ वसुमित्रसुरश्च्युत्वा त्वमभूर्भूपः सुमित्रदेवस्तु । तव देवी प्रीतिमती प्रीतिर्वा प्राग्भवाऽभ्यस्ता ॥८१॥
१. अक्षत ।
श्राद्धविधिप्रकरणम्