________________
प्रथमः
प्रकाशः
१८६
bbbbbb
इत्याख्याति क्षितिपेऽन्तरीक्षतस्तत्र चित्रकृत्सुरवत् । चारणमहर्षिरागात् स्पृहालतायाः सफलताऽहो ! ॥५९॥ बहुमानासनदानाभिवन्दनादीनि विहितपूर्विषु च । उर्वीश्वरादिषु मुनेर्धन्योऽढौकत तथैवैतत् ॥६०॥ मुनिनोक्तमुत्तमत्वं तरतमभावेन भवति केष्वपि चेत् । तद्विश्रान्तिस्त्वर्हत्येवार्हति विश्वविश्वार्हे ॥६१॥ तस्मात्तस्यैवोचितमेतद् भोस्त्रिजगदुत्तमतमस्य । कामगवीव नवीनाऽत्राऽमुत्र जिनार्चनाऽर्थितदा ॥ ६२ ॥ इति यतिवाक्यान्मुदितो भद्रकभावः स भावतश्चैत्ये । गत्वार्हतः शिरसि तच्छत्रमिवादात् पवित्रतनुः ॥६३॥ तेन स शिरस्कजिनवरशिरसः शोभानिभालनाऽतुलमुत् । शुभभावनाऽऽश्रितमनाः सुस्थस्तस्थौ क्षणं यावत् ॥६४॥ तावत्तत्र चतस्रः कन्यास्ताः कुसुमविक्रयायेयुः । ददृशुश्चार्हतशीर्षे तत्कमलं तेन विन्यस्तम् ॥६५॥ अनुमोदनोद्यतास्ता अपि संपद्वीजमिव भगवतोऽङ्गे । एकैककुसुममसमं समं समारोपयामासुः ॥६६॥ पुण्ये पापे पाठे दानाऽऽदानाऽदनाऽन्यमानादौ । देवगृहादिककृत्येष्वपि प्रवृत्तिर्हि दर्शनतः ॥६७॥ धन्यम्मन्यः प्राप च धन्यः कन्याश्च निजनिजस्थानम् । सति संयोगे प्रणमति तत्प्रभृति प्रतिदिनं स जिनम् ॥६८॥ इति च ध्यायति धिङ् मां प्रतिदिनजिननमननियममपि लातुम् । असमर्थं रङ्कमिवाप्यहर्निशं परवशं पशुवत् ॥६९॥ धात्रीशमन्त्रिवसुमित्रसुमित्राख्यास्तु चारणर्षिगिरा । प्रतिपन्ना गृहिधर्मं क्रमात्प्रपन्नाश्च सौधर्मम् ॥७०॥
श्राद्धविधिप्रकरणम्