________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
अहह सहसा सहाऽभूद् द्वयोः किमित्युच्चकैस्तटस्थजनाः । दृग्दोषदिव्यदोषाद्याशङ्कितहृदोऽथ पूच्चक्रुः ॥३४॥ तत्कालमिलितराजामात्याद्यैः शीतलोपचारकृते । जातः सचेतनोऽसौ क्षणात्तदम्बाऽप्यहो ! योगः ॥३५॥ वर्धापनादि जज्ञे निन्ये सूनुश्च निजगृहे समहम् । तदहःस्थितश्च सुस्थ: स्तन्यास्वादादिकृत् प्राग्वत् ॥३६॥ स्तन्यमहनि द्वितीये शुभंयुरपि नापिबत्त्वरौचकिवत् । चतुराहारप्रत्याख्यातेव न चौषधाद्यपि सः ॥३७॥ पित्रादिषु पौरादिषु दुःखिषु मन्त्र्यादिकेषु मूढेषु । मध्याह्ने मुनिरागात्तत्सुकृताऽऽकृष्ट इव नभसा ॥३८॥ प्रणत: पूर्वमपूर्वप्रीत्या शिशुना नृपादिभिस्तु ततः । शिशुमुखमुद्रणहेतुं पृष्ठश्च स्पष्टमाचष्ट ॥३९॥ दोषा अत्र न किञ्चन जिनदर्शनमस्य किन्तु कारयत । येनाऽधुना स्वयमयं स्तनन्धयत्वं सहर्षयति ॥४०॥ नीतस्ततोऽर्हतोऽग्रे नतिपूर्वं पूर्ववत्प्रवृत्तोऽसौ । स्तन्यं पातुं प्रीतिं प्रापुश्चाऽऽश्चर्यमथ सर्वे ॥४१॥ पुनरवनिपतिर्मुनिपतिमपृच्छदत्यद्भुतं किमेतदिति । सोऽप्यभणत्पूर्वभवाभिधानपूर्वं भणामि शृणु ॥४२॥ पुरिकापुरि कापुरुषैरूनायां सुपुरुषैरनूनायाम् । सकृपः कृपणेष्वकृपः शत्रुषु कृपनामनृपतिरभूत् ॥४३॥ सुत्राममन्त्रिमित्रं मत्यामात्योऽस्य चित्रमत्याह्वः । इच्छावसुरिव वसुभिर्वसुमित्रस्तस्य मित्रमभूत् ॥४४॥ आढ्योऽस्य वणिक्पुत्रः सुमित्र ऊनोऽभिधाक्षरेणैव । तुल्योऽधिकोऽपि च वणिक्पुत्रः स्यात् श्रेष्ठितः क्रमतः ॥४५॥
१८४