________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
नानादैवतपूजनदानादिसुकर्मनिर्मिमाणाऽपि । संसारसारभूतं शप्तेवाप्नोमि किं न सुतम् ? ॥११॥ पुत्राति मम च कथं वेत्स्यभिधत्से नृभाषया च कथम् । सोऽप्यभ्यधत्त किं मम ? 'तप्त्याऽभिदधे तु ते हितकृत् ॥१२॥ प्राकृतकर्माधीना धनतनयसुखादिसंपदः सकलाः । विघ्नोपशमनिमित्तं त्वत्राऽपि कृतं भवेत्सुकृतम् ॥१३॥ यत्तद् देवार्चाद्यं मिथ्या मिथ्यात्वमाचरन्त्यधियः । जिनधर्म एव भविनामत्राऽप्यभीष्टफलकारी२ ॥१४॥ यदि जिनधर्माद्विघ्नोपशमादि न भावि तत्कुतोऽन्येभ्यः । यद् भानुना न भेद्यं तमः कथं ? तद् ग्रहैरितरैः ॥१५॥ तत्त्यक्त्वा मिथ्यात्वं कुपथ्यमिव तथ्यमार्हतं धर्मम् । सेवस्व सुपथ्यमिवाऽऽप्नोषि यथाऽत्राप्यखिलमिष्टम् ॥१६॥ इत्युक्त्वोड्डीय गते सितच्छदे क्वापि सपदि पारदवत् । अतिविस्मिता स्मितास्याऽजायत जाततनयाशा ॥१७॥ आत्तौ सत्यां धर्माद्यास्थास्थास्नुत्वमाश्रयत्युच्चैः । इति सा श्रावकधर्मं ततः प्रपेदे सपदि सुगुरोः ॥१८॥ त्रिर्जिनपूजादिपरा सद्दर्शनशालिनी च सुलसावत् । साऽभूत् क्रमतः सुमहानहो ! गुणः कोऽपि हंसगिरः ॥१९॥ नाद्यापि पट्टदेव्यास्तनुजस्तनुजाः परः शतास्तु परे । राज्याह एषु को न्विति चिन्ता जज्ञेऽन्यदा राज्ञः ॥२०॥ निशि च नरेशं स्वप्ने साक्षादिव दिव्यपुरुषः कश्चित् । स्माह महीश ! वृथा मा कृथाः स्वराज्यार्हसुतचिन्ता ॥२१॥
१. तथ्या इति को० ह० प्र० पाठः । २. अत्राऽमुत्राप्य भीष्टफलः इति को० ह० प्र० पाठः ।