________________
प्रथम: प्रकाशः
AAAAAAAA
श्राद्धविधिप्रकरणम्
तच्चेदम् -
राजद्राजतचैत्ये राजपुरे राजते स्म राजधरः । राजा राजेव नृणां शीतकर: कुवलयोल्लासी ॥१॥ प्रीतिमतीप्रभृतीनां पञ्चशती तस्य करगृहीतानाम् । आसीद्यासु न्यासीकृतेव रूपद्धिरमरीभिः ॥२॥ अर्थात् प्रीतिमतीत्वं प्रीतिमतीवर्जमन्यभार्याभिः । विश्वानन्दनन्दनलाभाल्लेभेऽथ निखिलाभिः ॥३॥ सुतवन्ध्या वन्ध्यावत्प्रीतिमती त्वधिकमाप हृदि खेदम् । दुर्विषहः खलु पङ्क्तेर्भेदो हि विशिष्य मुख्यत्वे ॥४॥ यदि वा दैवायत्ते वस्तुनि किं मुख्यतादिचिन्ताभिः । तदपि तदति दधतां धिङ् मौढ्यं मूढहृदयानाम् ॥५॥ विविधोपयाचितशते वैफल्यमिते तदत्तिरति ववृधे । नाऽऽशाप्युपेयविषया निष्फलतायामुपायानाम् ॥६॥ कश्चिन्मरालबालस्तयाऽन्यदा धाम्नि बालवद्विलसन् । नीतः करेऽप्यभीतः स्फीतनृवाचेत्युवाचेमाम् ॥७॥ भद्रे ! स्वैरमिहाप्तं किं मां धरसे रसेन निपुणापि । स्वैरविहारपराणां धरणं हि निरन्तरं मरणम् ॥८॥ वन्ध्यात्वमनुभवन्त्यपि कथमीदृशमशुभकर्म निर्मासि । शुभकर्मणैव धर्मो धर्माच्च निजेष्टसिद्धिरपि ॥९॥ अथ सा विस्मितभीताऽभाषत भो ! भाषसे किमीदृङ्माम् । त्वां दक्षमुख्य ! मक्ष्वपि मोक्षाम्येकं तु पृच्छामि ॥१०॥
१. प्रीतिमतीत्यन्वर्थ इति को० ह० प्र० पाठः ।