________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
असढस्स अ परिसुद्धा, किरिया सुद्धाइकारणं होइ । अंतो विमलं रयणं, सुहेण बझं मलं चयइ ॥ तइअगरूवगतुल्ला, मायामोसाइदोससंपत्ता । कारिमरूवयववहारिणोव्व कुज्जा महाणत्थं ॥ होइ अ पाएणेसा, अन्नाणाओ असद्दहाणाओ । कम्मस्स गुरुत्ताओ, भवाभिनंदीण जीवाणं ॥ उभयविहीणाओ पुणो, नियमाराहणविराहणारहिआ । विसयब्भासगुणाओ कयाइ होज्जा सुहनिमित्तं ॥ जह सावगस्स पुत्तो, बहुसो जिणबिंबदसणगुणेणं । अकयसुकओ वि मरिउं, मच्छभवे पाविओ सम्मं ॥ एतद्गाथासु पञ्चमादिगाथासप्तकस्याऽर्थलेशो यथा
सदनुष्ठानं चतुर्विध-प्रीतियुतं भक्तियुतं वचनप्रधानं असङ्गानुष्ठानं च । यत्कुर्वतः प्रीतिरसोऽतिरुचिरूपो वर्द्धते तत् प्रीत्यनुष्ठानम् १। पूज्येषु प्रीत्यनुष्ठानसममपि करणं भक्त्यनुष्ठानं २। प्रीत्या पत्न्याः पालनादि क्रियते, मातुस्तु भक्त्येति प्रीतिभक्त्योर्विशेषः । वचनानुष्ठानं सर्वत्राऽऽगमात्मकप्रवृत्तिरूपं चरित्रिणः साधो न्यस्य पार्श्वस्थादेः ३। यत् पुनरभ्यासरसादभ्यासप्रकर्षाद् भूयो भूयस्तदासेवनेन श्रुतापेक्षां विनैव करोति फलनिराशंसो जिनकल्पिकादिस्तदसङ्गानुष्ठानम् ४। यथा चक्रभ्रमणमेकं दण्डसंयोगाज्जायते एवं वचनानुष्ठानमप्यागमात्प्रवर्त्तते, यथा चान्यच्चक्रभ्रमणं दण्डसंयोगाभावे केवलादेव संस्कारपरिक्षयात् स्यात्, एवमागमसंस्कारमात्रेण यद्वचननिरपेक्षं तदसङ्गानुष्ठानमिति पञ्चमादिगाथासप्तकार्थः । एवं च देवपूजादावेकान्तहार्दबहुमाने यथोक्तविधिविधाने च सम्पूर्णफलमिति । तत्र सम्यग् यतनीय, अत्र धर्मदत्तनृपनिदर्शनं दर्श्यते ।।
१८०