________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
पूजा च प्रत्यहं त्रिसन्ध्यं विधेया । यत:जिनस्य पूजनं हन्ति प्रातः पापं निशाभवम् । आजन्मविहितं मध्ये सप्तजन्मकृतं निशि ॥ जलाहारौषधस्वापविद्योत्सर्गकृषिक्रियाः । सत्फला स्वस्वकाले स्युरेवं पूजा जिनेश्वरे ॥ जिणपूअणं तिसंझं, कुणमाणो सोहए अ सम्मत्तं । तित्थयरनामगुत्तं, पावइ सेणिअनरिंदुव्व ॥ जो पूएइ तिसंझं, जिणिंदरायं सया विगयदोस । सो तइअभवे सिज्झइ, अहवा सत्तट्ठमे जम्मे ॥ सव्वायरेण भवयं, पूइज्जतो वि देवनाहेहिं । णो होइ पूइओ खलु, जम्हाणंतग्गुणो भयवं ॥ तुममच्छीहि न दीससि, नाराहिज्जसि पभूअपूआए । किंतु गुरुभत्तिराएण वयणपरिपालणेणं च ॥
देवपूजादौ च हार्दबहुमानसम्यग्विधिविधानयोः शुद्धाशुद्धरौप्यटङ्ककदृष्टान्तेन चतुर्भङ्गी ज्ञेया । यथा शुद्धं रूप्यं शुद्धा मुद्रेति प्रथमो भङ्गः । शुद्ध रूप्यमशुद्धा मुद्रेति द्वितीयः । शुद्धा मुद्रा रूप्यमशुद्धमिति तृतीयः । द्वयोरशुद्धत्वे चतुर्थः । एवं | देवपूजादौ सम्यग् बहुमाने सम्यग् विधौ च प्रथमः । सम्यग् बहुमानो न तु सम्यग् विधिरिति द्वितीयः । सम्यग्विधिन तु सम्यग् बहुमान इति तृतीयः । द्वयोरभावे तुर्यः । उक्तञ्च बृहद्भाष्ये
इत्थ पुण वंदणाए, रूप्पसमो होइ चित्तबहुमाणो । टंकसमा विन्नेआ, संपुन्ना बाहिरा किरिया ॥ दुण्डंपि समाओगे, सुवंदणा छेअरूवगसरिच्छा । बीअगरूवगतुल्ला, पमाइणो भत्तिजुत्तस्स ॥
१७८