SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाशः भेषजानां हि करणेऽप्यपथ्यसेविनो नारोग्यलाभः यतः श्राद्धविधिऔषधेन विना व्याधिः पथ्यादेव निवर्त्तते । न तु पथ्यविहीनस्य औषधानां शतैरपि ॥ प्रकरणम् एवं भक्तिरपि निषिद्धाचरणशीलस्य न विशेषफलाय । यदि तु द्वयमपि भवति तदा सम्पूर्णसिद्धिः, यथा पथ्यशील- | 4 स्यौषधैः । श्रीहेमसूरयोऽप्याहुः वीतराग ! सपर्यातस्तवाज्ञापालनं वरम् । आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च ॥ आकालमियमाज्ञा ते हेयोपादेयगोचरा । आस्रवः सर्वथा हेय उपादेयश्च संवरः ॥ द्रव्यभावस्तवयोश्चैवं फलमूचुःउक्कोसं दव्वत्थयं, आराहिअ जाइ अच्चुअं जाव । भावत्थएण पावइ, अंतमुहुत्तेण निव्वाणं ॥ द्रव्यस्तवे च यद्यपि षट्कायोपमर्दनादिका काचिद्विराधना स्यात् तथापि कूपोदाहरणेन गृहिणः स कर्तुमुचित एव 4 कर्तृद्रष्टश्रोतॄणामगण्यपुण्यानुबन्धनिबन्धनत्वात् । यथा नव्यग्रामे स्नानपानाद्यर्थं जनैः कूपखनने तेषां तृष्णाश्रमकर्दममालिन्यादि | स्यात्, परं कूपजलोद्गमे तेषामन्येषां च तृष्णादेः प्राक्तनमलादेश्चोपशमेन सर्वदा सर्वाङ्गीणं सुखं स्यात् तथेहापि । तदावश्यकनिर्युक्तौ १७६
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy