________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
अतुच्छमत्सराकुला स्वप्रासादं तत्प्रतिमाः तत्र महापूजा नाट्यादिविधिं च विशिष्टतरं विशिष्टतरं कारयति । सपत्नीचैत्यप्रतिमापूजादौ च प्रद्वेषं वहति । अहह मत्सरस्य दुस्तरता । तदभ्यधिष्महि
पोता अपि निमज्जन्ति मत्सरे मकराकरे । तत्तत्र मज्जनेऽन्येषां दृषदामिव किं नवम् ॥ विद्यावाणिज्यविज्ञानवृद्धिऋद्धिगुणादिषु । जातौ ख्याती प्रोन्नतौ च धिग् धिग् धर्मेऽपि मत्सरः ॥
ऋज्व्यः सपत्न्यस्तु तस्याः कृत्यं नित्यमनुमोदन्ते । एवं मत्सरग्रस्ता दुर्दैवादसाध्यविविधव्याधिबाधिता राज्ञा गृहीताभरणा दिसारा भृशार्तिभृन्मृत्वा सपत्नीचैत्याऽर्चाप्रद्वेषेण शुनी जाता, स्वचैत्यद्वारे पूर्वाभ्यासात्तिष्ठति । अथ तत्रागतः केवली, कुन्तला मृत्वा क्व गतेति राज्ञीभिः पृष्टः सर्वं यथावदाचष्ट । ततस्ताः परमसंविग्नास्तस्याः शुन्या भक्ष्यं क्षिपन्त्यः सस्नेहं प्राहुः, 'महाभागे ! धर्मिष्ठयाऽपि त्वया हा किमेवं मुधा प्रद्वेषः कृतः ? येनेग् जाताऽसीति । तदाकर्णनचैत्यदर्शनादिना जातजातिस्मृतिः सा शुनी संविग्ना सिद्धादिसमक्षं प्रद्वेषादि आलोच्य प्रतिपन्नानशना मृत्वा वैमानिकीभूता । तस्मात् प्रद्वेषस्त्याज्यः । इति द्रव्यस्तवः ।
इह सर्वापि भावपूजा श्रीजिनाज्ञापालनं च भावस्तवः । जिनाज्ञा च द्विप्रकारा स्वीकारपरिहाराभ्याम् । तत्र सुकृताऽऽचरणं स्वीकारः, निषिद्धाऽनासेवनं परिहारः । स्वीकारपक्षाच्च परिहारपक्ष एव श्रेष्ठः, यतो निषिद्धासेविनो बह्वपि सुकृताचरणं विशेषगुणाय नोपजायते । यथाहि व्याधितस्य प्रतीकारः स्वीकारपरिहाराभ्यां द्वेधा, तत्रौषधानां स्वीकारोऽपथ्यस्य च परिहारः,
१७५