________________
प्रथम: प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
धर्मानुष्ठानवैतथ्यात्प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजननो दुष्प्रयुक्तादिवौषधात् ॥
श्राद्धविधिचैत्यवन्दनादेश्चाविधिना विधाने प्रायश्चित्तमप्युक्तमागमे । तथाच महानिशीथसप्तमाध्ययनसूत्र-अविहीए चेइआई वंदिज्जा तस्स |4
प्रकरणम् णं पायच्छित्तं उवइसिज्जा, जओ अविहीए चेइआई वंदमाणो अन्नेसिं असद्ध जणेइ इइ काऊणं ।
देवताविद्यामन्त्रादयोऽपि विधिनैवाराद्धाः सिद्धिफलाः, अन्यथा तु अनर्थाद्यपि सद्यः कुर्युः । यथाऽयोध्यायां सुरप्रियो यक्षः प्रत्यब्दं यात्रादिने चित्रितश्चित्रकर्मचित्रितस्तु पूर्लोकं हन्ति, ततो नश्यन्तश्चित्रकृतो मिथः प्रतिभूत्वादिना राज्ञा श्रृङ्खलाबद्धीकृताः, घटन्यस्तपत्रिकायां यन्नाम निर्याति तत्पार्वाद् यक्षश्चित्र्यते, अन्यदा वृद्धापुत्रस्य नामनिर्गमे वृद्धारोदने कौशाम्ब्यागतकियद्दिन-स्थितचित्रकृद्दारकेण ध्रुवमविधिनैते चित्रयन्ति इति विमृश्य दृढमुक्तम्, 'अहं चित्रयिष्यामि' इति । ततस्तेन षष्ठं कृत्वा वपुर्वस्त्रवर्णककूर्चिकादिपावित्र्य-अष्टपुटमुखकोशादिविधिना स चित्रितः, पदोः पतित्वा च क्षमितः, तुष्टो दारकेणोक्तः मारिन कार्या, पुनस्तुष्ट एकांशदर्शने यथास्थरूपचित्रणकलां ददौ । तेन कौशाम्बीससभायां जालिकाङ्गष्ठदर्शिना मृगावतीरूपं यथास्थं चित्रितम् । राज्ञोरूतिलकं दृष्ट्वा स वध्य आज्ञप्तः । सर्वैर्वरकथनेऽपि मुखमात्रदर्शनेन कुब्जारूपचित्रणेऽपि छिन्नसंदंशः । पुनर्यक्षमाराध्य वामहस्तचित्रितां मृगावती चण्डप्रद्योतायाऽदर्शयत् । स प्रहितदूतधिक्कारे कौशाम्बी रुरोध ।
१. आराध्याः सिद्धफलाः इति को० ह० प्र० पाठः ।
१७१