________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
शतानीके मृते मृगावतीगिरा उज्जयिन्यानीतेऽष्टाभिर्वप्रं तृणान्नपूर्णां पूरी च चके । श्रीवीरे समवसृते भिल्लपृष्टं या सा सा सेति | सम्बन्धं श्रुत्वा सा अङ्गारवत्याद्याश्चण्डप्रद्योतराज्ञोऽष्टौ प्रव्रजिताः । इति विध्यविध्योतिम् । न चाविधिकृतादकृतमेव वरमिति प्रतिपक्षश्चिन्त्यः । यदुक्तं
अविहिकया वरमकयं असुअवयणं भणंति समयन्नू । पायच्छित्तं अकए, गुरुअं वितहं कए लहुअं ॥ तस्माद्धर्मानुष्ठानं निरन्तरं कार्यमेव, किन्तु तत्कुर्वता सर्वशक्त्या विधिविधौ यतनीयम् । इदमेव च श्रद्धालोर्लक्षणम् । आहुश्च
विहिसारं चिअ सेवइ, सद्धालू सत्तिमं अणुट्ठाणं । दव्वाइदोसनिहओ, विचक्खवायं वहइ तम्मि ॥ धन्नाण विहिजोगो विहिपक्खाराहगा सया धन्ना । विहिबहुमाणा धन्ना, विहिपक्खअदूसगा धन्ना ॥ आसन्नसिद्धिआणं विहिपरिणामो होइ उ सयकालं । विहिचाओ अविहिभत्ती, अभव्वजिअदूरभव्वाणं ॥
कृषिवाणिज्यसेवाद्यपि भोजनशयनासनगमनवचनाद्यपि च द्रव्यक्षेत्रकालादिविधिना पूर्ण फलति, अन्यथा त्वल्पमेव । श्रूयते हि द्वौ नरौ द्रव्यार्थिनौ देशान्तरे सिद्धनरं बहूपासितवन्तौ, ततस्तुष्टेन तेन तुम्बीफलबीजानि सप्रभावाण्यर्पितानि, सम्यगाम्नायश्चोक्तो, यथा शतवारकृष्टक्षेत्रे निरातपे उक्तनक्षत्रवारयोगे तानि वाप्यानि, वल्लीनिष्पत्तौ कानिचिद् बीजानि सङ्ग्रह्य
१७२