________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
तन्तुजालादौ विधिमाह
सीलेह मंखफलए, इअरे चोइंति तंतुमाईसु । अभिजोइंति सवित्तिसु अणिच्छफेडतऽदीसंता ॥ कल्प० १८१० ।
इतरेऽसंविग्ना देवकुलिका इत्यर्थः, ताँस्तन्तुजाललूतापुटकादिषु सत्सु ते साधवो नोदयन्ति, यथा शीलयत परिकर्मयत, मङ्खफलकानीव मलफलकानि, देवकुलानि, मलो नाम चित्रफलकव्यग्रहस्तः तस्य च यदि फलकमुज्ज्वलं भवति ततो लोक: सर्वोऽपि तं पूजयति, एवं यदि यूयमपि देवकुलानि भूयो भूयः सम्मार्जनादिना सम्यगुज्ज्वालयत, ततो भूयान् लोको भवतां पूजासत्कारं कुर्यात् । अथ ते देवकुलिकाः सवृत्तिकाश्चैत्यप्रतिबद्धगृहक्षेत्रादिवृत्तिभोगिनस्ततस्तानभियोजयन्ति=निर्भर्त्सयन्ति, यथा | एकं तावद्देवकुलानां वृत्तिमुपजीवथ, द्वितीयमेतेषां सम्मार्जनादिसारामपि न कुरुथ, इत्थमुक्ता अपि यदि तन्तुजालादीन्यपनेतुं नेच्छन्ति, ततोऽदृश्यमानाः स्वयमेव स्फेटयन्त्यपनयन्तीति तवृत्तिः । एवमागमाच्च विनश्यच्चैत्याद्युपेक्षा संयतेनापि सर्वथा न कार्येत्यागतम् । अयं च चैत्यगमनपूजास्नात्रादिविधिः सर्वोऽपि ऋद्धिप्राप्तमाश्रित्योक्तः, तस्यैवैतद्योगसम्भवात् । अनृद्धिप्राप्तस्तु श्राद्धः स्वगृहे सामायिकं कृत्वा केनापि सह ऋणविवादाद्यभावे ईर्याधुपयुक्तः साधुवच्चैत्यं याति नैषेधिकीत्रयादिभावपूजानुयायिविधिना । स च पुष्पादिसामग्र्यभावाद् द्रव्यपूजायामशक्तः सामायिकं पारयित्वा कायेन यदि किञ्चित् पुष्पग्रथनादि कर्त्तव्यं स्यात्तत् करोति । ननु कथं सामायिकत्यागेनात्र द्रव्यस्तवस्यौचित्यम् ? उच्यते, सामायिकमस्य स्वायत्तत्वात् सकलकालमपि कर्त्तव्यं स्यात्, चैत्यकृत्यं तु समुदायायत्तत्वात्कादाचित्कं, प्रस्तावे च तस्मिन् क्रियमाणे
१६९