________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
श्रद्धालुभिः सुरवरैः प्रकीर्णकुसुमोत्करम् । भर्तुरुत्तारयामास तत् त्रिस्त्रिदशपुङ्गवः ॥ मङ्गलप्रदीपोऽप्यारात्रिकवत्पूज्यतेकोसंबिसंठिअस्स व, पयाहिणं कुणइ मउलिअपईवो' । जिण ! सोमदंसणे दिणयरुव्व तुह मंगलपईवो ॥ भामिज्जंतो सुरसुंदरिहिं तुह नाह ! मंगलपईवो । कणयायलस्स नज्जइ, भाणुव्व पयाहिणं दितो ॥
इति पाठपूर्वं तथैवोत्तार्य दीप्यमानो जिनचरणाने मुच्यते । आरात्रिकं तु विधाप्यते न दोषः । प्रदीपारात्रिकादि च | मुख्यवृत्त्या घृतगुडकर्पूरादिभिः क्रियते विशेषफलत्वात् । लोकेऽप्युक्तं
प्रज्वाल्य देवदेवस्य कपूरण तु दीपकम् । अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ अत्र मुक्तालङ्कारेत्यादिगाथाः श्रीहरिभद्रसूरिकृताः सम्भाव्यन्ते । तत्कृतसमरादित्यचरित्रग्रन्थस्यादौ
'उवणेउ मंगलं वो' इति नमस्कारस्य दर्शनात् । एताश्च गाथा: श्रीतपापक्षादौ प्रसिद्धा इति न सर्वा लिखिताः । स्नात्रादौ सामाचारीविशेषेण विविधविधिदर्शनेऽपि न व्यामोह: कार्यः, अर्हद्भक्तिफलस्यैव सर्वेषां साध्यत्वात् । गणधरादिसामाचारीष्वपि भूयांसो भेदा भवन्ति । तेन यद्यद्धर्माद्यविरुद्धमर्हद्भक्तिपोषकं तत्तन्न केषामप्यसम्मतम् । एवं सर्वधर्मकृत्येष्वपि ज्ञेयम् । इह
१. पयावो इति को० ह० प्र० पाठाः ।