________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
श्रामण्यावस्था तु भगवतोऽपगते केशशीर्षमुखदर्शनात् सुज्ञातैव । प्रातिहार्येषु परिकरोपरितनकलशोभयपार्श्वघटितैः पत्रैः कङ्केलिः, - मालाधारैः पुष्पवृष्टिः, वीणावंशकरैः प्रतिमोभयपार्श्ववर्तिभिर्दिव्यो ध्वनिः शेषाणि स्फुटान्येव । इति भावपूजा ।
पंचोवयारजुत्ता, पूआ अट्ठोवयारकलिआ य । रिद्धिविसेसेण पुणो, नेआ सव्वोवयारावि ॥ चै. महा. २०९ तहिअं पंचुवयारा, कुसुमक्खयगंधधूवदीवहिं । कुसुम-क्खय-गंध-पईव-धुव-नेवज्ज-फल-जलेहिं पुणो । अट्टविहकम्महणणी, अट्टवयारा हवइ पूआ ॥ सव्वोवयारपूआ, ण्हवणच्चणवत्थभूसणाईहिं । फलबलिदीवाईनट्टगीअआरत्तिआइहिं ॥ इति बृहद्भाष्याधुक्तं पूजाभेदत्रयम् । तथासयमाणयणे पढमा, बीआ आणावणेण अन्नेहिं । तइआ मणसा संपाडणेण वरपुष्फमाईणं ॥
इति कायवाङ्मनोयोगितया करणकारणानुमतिभेदतया च पूजात्रिकम् । तथा-पूअंपि पुष्फामिसथुइपडिवत्तिभेअओ चउविहंपि जहासत्तीए कुज्जा।
ललितविस्तरादौ तु पुष्पामिषस्तोत्रप्रतिपत्तिपूजानां यथोत्तरं प्राधान्यमित्युक्तम् (नमुत्थुनं पदव्याख्यानावसरे) । तत्रामिषं प्रधानमशनादि भोग्य वस्तु । यद् गौड:
सससस ससस ससससससस ससससस
१५९