SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाशः श्राद्धविधिप्रकरणम् उत्कोचे पलले न स्त्री आमिषं भोग्यवस्तुनि । प्रतिपत्तिः पुनरविकलाऽऽप्तोपदेशपरिपालना । इत्यागमोक्तं पूजाभेदचतुष्टयम् । तथादुविहा जिणिंदपूआ, दव्वे भावे अ तत्थ दव्वम्मि । दव्वेहिं जिणपूआ, जिणआणापालणं भावे ॥ इत्याद्युक्तं द्रव्यभावादिलक्षणं पूजाभेदद्वयादि । तथा-पुप्फारुहणं गंधारुहणं इत्यादयः सप्तदश, स्नात्रविलेपनादयश्चैकविंशतिः पूजाभेदा अङ्गादिपूजात्रये सर्वव्यापकेऽन्तर्भवन्ति । सप्तदशपूजाभेदांश्चैवमूचुः ण्हवणविलेवणअंगम्मि चक्खुजुअलं च वासपूआए । पुप्फारुहणं मालारुहणं तह वन्नयारुहणं ॥ चुन्नारुहणं जिणपुंगवाण आहरणारोहणं चेव । पुष्फगिह पुष्फपगरो, आरत्तिमंगलपईवो ॥ दीवो धूवुक्खेवं, नेवेज्जं सुहफलाण ढोअणयं । गेअं नट्टं वज्जं पूजाभेआ इमे सत्तर ॥ एकविंशतिभेदपूजादिविधिश्चैवमुक्त:स्नानं पूर्वामुखीभूय प्रतीच्यां दन्तधावनम् । उदीच्यां श्वेतवस्त्राणि पूजा पूर्वोत्तरामुखी ॥ गृहे प्रविशतां वामभागे शल्यविवर्जिते । देवतावसरं कुर्यात् सार्द्धहस्तो_भूमिके ॥ नीचैर्भूमिस्थितं कुर्याद्देवतावसरं यदि । नीचर्नीचैस्ततो वंशः सन्तत्याऽपि सदा भवेत् ॥ AAAAAAAAAI १६०
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy