________________
IA
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
नमस्कारेणेति जातिनिर्देशाद् बहुभिरपि नमस्कारैः, यद्वा प्रणिपाताऽपरनामतया प्रणिपातदण्डकाख्यशकस्तवेनैकेन १॥ मध्या= मध्यमा दण्डः चैत्यस्तवदण्डः “अरिहंतचेइआणं' इत्यादि स्तुतिः प्रतीता-या तदन्ते दीयते ते एव युगलं यस्यां सा २१ पञ्चदण्डाः शक्रस्तव-चैत्यस्तव-नामस्तव-श्रुतस्तव-सिद्धस्तवाख्याः, प्रणिधानं जयवीअराय इत्यादि ३।
अन्ने बिति इगेणं, सक्कथएणं जहन्नवंदणया । तदुगतिगेण मज्झा, उक्कोसा चउहिं पंचहिं वा ॥ इरियाए पुव्वं वा, पणिहाणं चेव सक्वत्थयभणणे । दुगुणचिइवंदणं ते च हुंति सक्कत्थया तिन्नि ॥ इगवारवंदणे पुव्व पच्छ सक्कथएहिं ते चउरो । दुगुणिअवंदणए वा, पुदिव पच्छा च सक्वत्थए ॥ सक्वत्थओ अ इरिया दुगुणिअ चिइवंदणाइ तह तिन्नि । थुत्तपणिहाण सक्वत्थओ अ इअ पंच सक्वत्थया ॥ चैत्यवन्दनाश्च प्रत्यहं सप्त महानिशीथे साधोः प्रोक्ताः, श्राद्धस्याऽप्युत्कर्षतः सप्त । यद् भाष्यंपडिकमणे चेइअजिणचरिमपडिकमणसुअणपडिबोहे । चिइवंदण इअ जइणो सत्त उ वेला अहोरत्ते ॥ पडिकमओ गिहिणो वि हु सगवेला पंचवेल इयरस्स । पूआसु तिसंझासु अ होइ तिवेला जहन्नेणं ॥
तत्र द्वे आवश्यकयोः द्वे स्वापाऽवबोधयोः त्रिकालपूजाऽनन्तरं तिस्रश्चेति सप्त, एकावश्यककरणे तु षट्, स्वापादिसमये तदकरणे पञ्चादयोऽपि, बहुदेवगृहादौ तु सप्ताधिका अपि, यदापि पूजा न स्यात्तदापि त्रिसन्ध्यं देवा वन्द्याः श्राद्धेन । यदागमः
१५७