________________
प्रथमः
प्रकाशः
१५६
आरत्तिअमवयारण, मंगलदीवं च निम्मिउं पच्छा । चउनारीहिं वि निम्मत्थणं च विहिणाउ कायव्वं ॥
महानिशीथेऽपि तृतीयाध्ययने - अरिहंताणं भगवंताणं गंधमल्लपईवसम्मज्जणोवलेवणविचित्तबलिवत्थधूवाइएहिं पूआसक्वारेहिं पइदिणमब्भच्चणं पकुव्वाणा तित्थुच्छप्पणं करेमो त्ति । इत्यग्रपूजा ।
भावपूजा तु जिनपूजाव्यापारनिषेधरूपतृतीयनैषेधिकीकरणपूर्वं जिनाद् दक्षिणदिशि पुंसः स्त्रियास्तु वामदिशि, आशातना| परिहारार्थं जघन्यतोऽपि सम्भवे नवहस्तमानात्, गृहचैत्यादौ तु हस्तहस्तार्द्धमानात्, उत्कृष्टतस्तु षष्ठिहस्तमानादवग्रहाद् बहिः स्थित्या चैत्यवन्दना विशिष्य स्तुत्यादिभिः स्यात् । आह च
तड़आओ भावपूआ, ठाउं चिइवंदणोचिए देसे । जहसत्ति चित्तथुइथुत्तमाड़णा देववंदणयं ।।
निशीथेऽपि—सो उ गंधारसावओ थयथुईहिं थुणंतो तत्थ गिरिगुहाए अहोरत्तं निवसिओ । तथा वसुदेवहिण्डौ - वसुदेवो पच्चू कयसमत्तसावयसामाइआइनियमो गहिअपच्चक्खाणो कयकाउसग्गथुइवंदणो ति । एवमनेकत्र श्राविकादिभिरपि कायोत्सर्गस्तुत्याद्यैश्चैत्यवन्दना कृतेत्युक्तम् । चैत्यवन्दना च जघन्यादिभेदात् त्रेधा । यद्भाष्यं
नमुक्कारेण जहन्ना चिइवंदणमज्झदंडथुइजुअला | पणदंडथुइचउक्कगथयपणिहाणेहिं उक्कोसा ॥
नमस्कारेण=अञ्जलिबन्धशिरोनमनादिलक्षणप्रणाममात्रेण यद्वा 'नमो अरिहंताणं" इत्यादिना, अथवैकेन श्लोकादिरूपेण,
श्राद्धविधिप्रकरणम्