SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः १५५ ससससस प्रीयन्ते । श्रूयते ह्यग्निवेतालः शतमूढकनैवेद्यादिना विक्रमादित्यस्य वशीभूतः । भूतप्रेतादयोऽपि क्षैरेयीक्षिप्रचटकाद्यन्न| मेवोत्तारणादौ याचन्ते । तथा दिक्पालादीनां बलिः तीर्थकृद्देशनानन्तरं बलिश्चान्नेनैव क्रियते । निःस्वो हली साधूक्त्याऽऽसन्नचैत्ये | नित्यं नैवेद्यं ददानोऽन्यदा उत्सूरे सिंहरूपभिक्षुत्रयदर्शनपरीक्षातुष्टयक्षगिरा सप्तमेऽह्नि स्वयंवरे कन्यां नृपजयं राज्यं च लेभे । लोकेऽप्युक्तं-धूपो दहति पापानि दीपो मृत्युविनाशनः । नैवेद्ये विपुलं राज्यं सिद्धिदात्री प्रदक्षिणा ॥ अन्नादिसर्ववस्तुनिष्पत्तिहेतुत्वादिना जलमन्नादेरप्यतिशायीति तढौकनमपि कार्यम् । नैवेद्यारात्रिकाद्यागमेऽप्युक्तं । | यदावश्यकनिर्युक्तौ -कीर बलित्ति । निशीथेऽपि तओ पभावईए देवीए सव्वं बलिमाइ काउं भणिअं देवाहिदेवो वद्धमाणसामी तस्स पडिमा कीरत्ति वाहिओ कुहाडो, दुहा जायं पिच्छड़ सव्वलंकारविभूसिअं भयवओ पडिमं । निशीथपीठेऽपि - "बलित्ति असिवोवसमनिमित्तं कूरो किज्जइ ।" निशीथचूर्णौ च सम्प्रतिराजा रहग्गओ विविहफले खज्जगभुज्जगे अ कवडगवत्थमाई उक्किरणे करेड़ । कल्पेऽपि - साहम्मिओ न सत्था, तस्स कयं तेण कप्पड़ जईणं । जं पुण पडिमाण कए, तस्स कहा का अजीवत्ता ॥ प्रतिष्ठाप्राभृतात् श्रीपादलिप्तोध्धृतप्रतिष्ठापद्धतौ च यथाभणितमागमे १. कीरइ बली सुरावि अखंडफुडियाण फलगसरियाणं ( आ.नि. ५८४) । २. शास्तातीर्थकरः । đó đâu có dân dân đôn đốc ban đầu श्राद्धविधिप्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy