________________
प्रथमः
प्रकाशः
१५४
htt
बृहद्भाष्येऽप्युक्तं- जिणरिद्धिदंसणत्थं, एगं कारेड़ कोइ भत्तिजुओ । पायडिअपाडिहरं, देवागमसोहिअं चेव ॥ दंसणनाणचरित्ताराहणकज्जे जिणत्तिअं कोइ । परमिट्ठिनमोक्कारं, उज्जमिअं कोड़ पंच जिणे ॥ चै. म. २८ कल्लाणयतवमहवा, उज्जमिउं भरहवासभावित्ति । बहुमाणविसेसाउ, कोई केरिंति चउव्वीसं ॥ चै. म. २९ उक्कोस सत्तरिसयं, नरलोए विहरइत्ति भत्तीए । सत्तरिसयपि कोई, बिंबाणं कारड़ धणड्ढो ॥ चै. म. ३० तस्मात् त्रितीर्थीपञ्चतीर्थीचतुर्विंशतिपट्टादिकारणं न्याय्यमेव दृश्यते । इत्यङ्गपूजा ।
रौप्यसौवर्णशालिसिद्धार्थाद्यक्षतैरष्टमङ्गलालेखनम् । यथा श्रेणिकनृपस्य प्रत्यहमष्टोत्तरशतसौवर्णयवैः । अन्यथा वा | ज्ञानदर्शनचारित्राराधननिमित्तं सृष्ट्या पुञ्जत्रयेण पट्टादौ विशिष्टाक्षतढौकनं, तथा विविधानां कूराद्यशन शर्करागुडादिपान| पक्वान्नफलादिखाद्य-ताम्बूलादिस्वाद्यानां ढौकनं, गोशीर्षचन्दनरसेन पञ्चाङ्गुलितलैर्मण्डलालेखनादि पुष्पप्रकराऽऽ रात्रिकादि च सर्वमग्रपूजायामन्तर्भवति । यद् भाष्यं
AAAA
गंधव्वनट्टवाइअलवणजलारत्तिआइ 'दीवाई । जं किच्चं तं सव्वंपि ओअरइ अग्गपूआए ॥ चै. म. २०५
नैवेद्यपूजा च प्रत्यहमपि सुकरा महाफला च, धान्यस्य विशिष्य च राद्धस्य जगज्जीवनतया सर्वोत्कृष्टरत्नत्वात्, तत एव वनवासगत श्रीरामेण महाजनोऽन्नस्य कुशलं पृष्टः । कलहनिवृत्तिप्रीत्याद्यपि मिथोऽन्नभोजनेनैव सुदृढम् । देवा अपि नैवेद्येन प्रायः १. .....जं किच्चं । आमिसपूयाए च्चिय सव्वं पि तयं समोवरइ ॥
श्राद्धविधिप्रकरणम्