________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
यथा सश्रीकताऽतिरकेता स्यात् । गृहचैत्योपरि न धौतिकाद्यपि च मोच्यं, चैत्यवत्तत्रापि चतुरशीत्याशातनानां वर्जनीयत्वात्, पित्तलशैलादिमय्योऽर्चाश्च स्नपनाऽनन्तरमेकेनाऽङ्गरूक्षणेन सर्वतो निर्जलीकृत्य प्रत्यहं द्वितीयेन मृदूज्जवलाङ्गरूक्षणेन मुहुर्मुहुः सर्वतः स्पृशेत्, एवमर्चानामौज्ज्वल्यं स्यात् । यत्र यत्र स्वल्पोऽपि जलक्लेदस्तिष्ठति तत्र तत्र श्यामिका स्यादिति, स सर्वथा व्यपास्यते, केसरबहुलचन्दनविलेपनेनाऽप्यधिकाधिकमौज्ज्वल्यं तासां स्यात् ।
न च पञ्चतीर्थीचतुर्विंशतिपट्टादौ मिथः स्नात्रजलस्पर्शादिना दोष आशङ्क्यः, यदाहु:रायप्पसेणइज्जे, सोहम्मे सूरियाभदेवस्स । जीवाभिगमे विजयापुरीइ विजयाइदेवाणं ॥ भिंगारलोमहत्थयलूहणया धूवदहणमाईअं । पडिमाणं सकहाणय पूआए इक्कयं भणियं ॥ निव्वुअजिणिदसकहा सग्गसमुग्गेसु तिसु वि लोएसु । अन्नोन्नं संलग्गा, ण्हवणजलाईहिं संपुट्ठा ॥ पुव्वधरकालविहिआ, पडिमाई संति केसु वि पुरेसु । वत्तक्खा खेत्तक्खा, महक्खया गंधदिट्ठा य ॥ एकस्याहतः प्रतिमा व्यक्त्याख्या, एकत्र पट्टादौ चतुर्विशतिप्रतिमा क्षेत्राऽऽख्या, एवं सप्ततिशतप्रतिमा महाऽऽख्यामालाधराइआण वि, धुवणजलाई फुसेइ जिणबिंबं । पुत्थयपत्ताईण वि, उवरुवरि फरिसणाईअं ॥ ता नज्जइ नो दोसो करणे चउवीसवट्टयाईणं । आयरणाजुत्तीओ, गंथेसु अ दिस्समाण त्ति ॥
१५३