________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
एगस्सायरसारा, की पूआ परेसि थोवयरी । एसावि महावन्ना, लक्खिज्जइ निउणबुद्धीहि ॥ चै. म. ४० । आचार्यः-नायगसेवगबुद्धी, न होइ एएसु जाणगजणस्स । पिच्छंतस्स समाणं, परिवारं पाडिहेराई ॥ चै. म. ५० ववहारो पुण पढमं, पइट्ठिओ मूलनायगो एसो । अवणिज्जइ सेसाणं, नायगभावो न उण तेण ॥ चै. म. ५१ वंदणपूअणबलिढोअणेसु एगस्स कीरमाणेसु । आसायणा न दिट्ठा, उचितपवित्तस्स पुरिसस्स ॥ चै. म. ५२ ।। जह मिम्मयपडिमाणं, पूआ पुप्फाइएहिं खलु उचिआ । कणगाइ निम्मिआणं, उचिअतमा मज्जणाइ वि ॥ चै. ५४ कल्लाणगाइकज्जा, एगस्स विसेसपूअकरणे वि । नावन्नापरिणामो, जह धम्मिजणस्स सेसेसु ॥ चै. म. ५३ उचिअपवित्तिं एवं, जहा कुणंतस्स होइ नावन्ना । तह मूलबिंबपूआ, विसेसकरणे वि तं नत्थि ॥ जिणभवणबिंबपूआ, कीरति जिणाण नो कए किंतु । सुहभावणानिमित्तं, बुहाण इयराण बोहत्थं ॥ चै. म. १४२ चेईहरेण केई, पसंतरूवेण केइ बिंबेण । पूआइसया अन्ने, अन्ने बुझंति उवएसा ॥ चै. म. १४३
अत एव चैत्यं गृहचैत्यं च तथा तयोबिम्बानि विशिष्य च मुख्यबिम्बं यथास्वसामर्थ्यदेशकालाद्यपेक्षमतिविशिष्टानि कारयति । गृहचैत्यं हि पित्तल-ताम्रादिधातुमयं सम्प्रत्यपि कारयितुं शक्यते । तदशक्तौ दन्तादिमयं दन्तभ्रमर्यादिरचनापित्तलहिङ्गलशोभाप्रवरकोरणीविशिष्टकाष्ठादिमयं वा कार्यते । तथा चैत्ये गृहचैत्ये च प्रत्यहं सर्वतः प्रमार्जनं यथाविलोक्यमानतैलाभ्यञ्जनं सुधाधवलनं जिनचरित्रादिविचित्ररचनं समग्रपूजोपकरणसमारचनं परिधापनिकाचन्द्रोदयप्रदानादि च तथा करोति
१५२