________________
प्रथमः
श्राद्धविधि
प्रकाशः
प्रकरणम्
पूजाद्यनन्तरं गर्भगृहान्निर्गमनसमये कर्त्तव्या सम्भाव्यते न तु प्रवेशे, पूर्वं मूलबिम्बस्यैव पूजाया औचित्यप्रतिभासात् । आसन्नीभूतत्वेन द्वारबिम्बादेः पूर्वं पूजने बृहच्चैत्यप्रवेशेऽनेकबिम्बानामासन्नीभवनेन पूर्वं पूजाप्रसङ्गः । तथा चाल्पपुष्पादिसमाप्तौ 'मूलार्चापूजापि न स्यात् । तथा श्रीशत्रुञ्जयरैवतादितीर्थे प्रवेशमार्गासन्नान्यान्यचैत्यार्चापूजने मुख्यचैत्यगमनमपि प्रान्ते प्रसज्यते । न चैवं युज्यते, उपाश्रयप्रवेशे आसन्नसाधूनामपि गुरुवन्दनात्पूर्वं वन्दनप्रसङ्गात् । प्रणाममात्रं तु आसन्नार्चादीनां पूर्वमपि युक्तम् । तृतीयोपाङ्गविसंवादिन्यां सङ्घाचारोक्तविजयदेववक्तव्यतायामपि द्वारसमवसरणबिम्बपूजा पश्चादुक्ता । यथा
तो गंतुं सुहम्मसहं, जिण सकहा दंसणंमि पणमित्ता । उग्घाडित्तु समुग्गे, पमज्जए लोमहत्थेणं ॥ सुरहिजलेणिगवीसं, वारा पख्कालिआणुलिपित्ता । गोसीसचंदणेणं, तो कुसुमाईहिं अच्चेइ ॥ तो दारपडिमपूअं, सहासु पंचसुवि करड़ पुव्वं व । दारच्चणाइ सेसं, तइअ उवंगाउ नायव्वं ॥ तस्मान्मूलनायकस्य पूजा सर्वेभ्योऽपि पूर्वं सविशेषा च कार्या । उक्तमपिउचिअत्तं पूआए, विसेसकरणं तु मूलबिंबस्स । जं पडइ तत्थ पढमं, जणस्स दिट्ठी सहमणेणं ॥ चै. म. १९७ शिष्यः-पूआवंदणमाई, काऊणेगस्स सेसकरणम्मि । नायगसेवगभावो, होइ कओ लोगनाहाणं ॥ चै. म. ३९
१. मूलनायकस्येत्यर्थः ।
१५१ |