________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
अत्र ढौकिताऽक्षतादेर्निर्माल्यत्वमुक्तं, परमन्यत्राऽऽगमे प्रकरणचरित्रादौ वा क्वापि न दृश्यते, वृद्धसम्प्रदायादिनापि क्वापि गच्छेऽपि नोपलभ्यते । यत्र च ग्रामादावादानादिद्रव्याऽऽगमोपायो नास्ति, तत्राक्षतबल्यादिद्रव्येणैव प्रतिमाः पूज्यमानाः सन्ति । * अक्षतादेनिर्माल्यत्वे तु तत्र प्रतिमापूजाऽपि कथं स्यात् ? तस्माद्भोगविनष्टस्यैव निर्माल्यत्वं युक्तियुक्तं प्रतिभाति । “भोगविणटुं | दव्वं निम्मल्लं बिति गीअत्था" इत्यागमोक्तेरपि, तत्त्वं तु केवलिगम्यम् ।
चन्दनपुष्पादिपूजा च तथा कार्या यथा जिनस्य चक्षुर्मुखाच्छादनादि न स्यात्, सश्रीकताऽतिरेकश्च स्यात्, तथैव द्रष्ट्रणां प्रमोदपुण्यवृद्ध्यादिसम्भवात् । अङ्गाग्रभावैश्च त्रिधा पूजा । तत्र निर्माल्यापनयनं, प्रमार्जनाङ्गप्रक्षालनं, वालककूञ्चिकाव्यापारणं, पूजनं, कुसुमाञ्जलिमोचनं, पञ्चामृतस्नात्रं, शुद्धोदकधाराप्रदानं, धूपितस्वच्छमृदुगन्धकाषायिकादिवस्त्रेणाङ्गरूक्षणं, कर्पूरकुङ्कुमादिमिश्रगोशीर्षचन्दनविलेपनाऽऽङ्गीविधानादि, तथा गोरोचन-मृगमदादिभिस्तिलकपत्रभङ्ग्यादिकरणम्, निस्सपत्नरत्नसौवर्णमुक्ताभरणरौप्यसुवर्णपुष्पादिभिरलङ्करणं । यथा श्रीवस्तुपालः स्वकारितसपादलक्षबिम्बानां श्रीशत्रुञ्जये सर्वबिम्बानां च रत्नस्वर्णाभरणानि कारितवान् । यथा वा दमयन्ती प्राग्भवेऽष्टापदे चतुर्विंशतेरहतां रात्नतिलकानि ददौ । एवं चान्येषामपि भाववृद्ध्यादि । यतः
पवरेहिं साहणेहि, पायं भावोवि जायए पवरो । न य अन्नो उवओगो, एएसिं सयाण लट्ठयरो ॥ पञ्चाशक-४-१६ तथा परिधापनिका चन्द्रोदयादिविचित्रदुकूलादिवस्त्रैः परिधापन, ग्रन्थिम-वेष्टिम-पूरिम-सङ्घातिमरूपचतुर्विधप्रधाना
१४८