________________
प्रथम:
प्रकाशः
प्रकरणम्
. . .
AAAAAAAAAAAAAAAAAAAAAAAAA
म्लान-विध्यानीत-शतपत्र-सहस्रपत्र-जाती-केतक-चम्पकादिविशेषपुष्पैर्माला-मुकुट-शिरस्क-पुष्पगृहादिविरचनम् । जिनहस्ते सौवर्ण-बीजपूर-नालिकेरपूगी-फल-नागवल्लीदल-नाणकमुद्रिकामोदकादिमोचनम् । धूपोत्क्षेप-सुगन्धवासप्रक्षेपाद्यपि सर्वमङ्गपूजायां भवति । तथोक्तं बृहद्भाष्ये -
ण्हवण-विलेवण-आहरण-वत्थफल-गंध-धूवपुप्फेहि । कीड जिणंगपूआ, तत्थ विही एस नायव्वो ॥ वत्थेण बंधिऊणं, नासं अहवा जहा समाहीए । वज्जेअव्वं तु तया देहम्मिवि कण्डुअणमाई ॥ चै. २०१/पंचा.४-२० अन्यत्रापि कायकण्डूयणं वज्जे, तहा खेलविगिचणं । थुइथुत्तभणणं चेव, पूअंतो जगबंधुणो ॥
देवपूजाक्षणे च मुख्यवृत्त्या मौनमेव कार्यम्, तदशक्तौ पापहेतुर्वच: सर्वथा त्याज्यम्, नैषेधिकीकरणे गृहादिव्यापारनिषेधात्, तत एव पापहेतुः सञ्ज्ञाऽपि वा, अनौचित्यादिप्रसङ्गादपि । तथा धवलक्कवासी श्रेष्ठी जिणहाकोऽतिदुःस्थो घृतकुतुपकर्पासादिभारवहनेन निर्वाही भक्तामरस्तवादिस्मृतेः तुष्ट चक्रेश्वरीदत्तवश्यकृद्रत्नमहिम्ना मार्गे दुष्टताविख्यातं चौरस्त्रयं जघान । पत्तने भीमदेवनृपोऽद्भुतं तमुदन्तं श्रुत्वा सबहुमानमाकार्य तस्मै देशरक्षार्थं खड्गं ददौ । तदा शत्रुशल्यः सेनानी: सेर्दामाख्यात् -
. . .
१४९
१. वत्था हरणविलेवणसुगंधिगंधेहि धूवपुप्फेहिं । चै, म. २०० । २. देह इति को० ह० प्र० पाठः ।