SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रथम: प्रकाशः श्राद्धविधिप्रकरणम् व्रजति । एवं जिनगृहे गत्वा । पुष्पताम्बूलसिद्धार्थदूर्वादीनां च क्षुरिकापादुकाकिरीटवाहनादीनां च सचिताचित्तद्रव्याणां परिहारेण किरीटवर्जशेषाभरणाद्यचित्तद्रव्याणामपरिहारेण कृतैकपृथुलवस्त्रोत्तरासङ्गो दृष्टे जिनेन्द्रेऽञ्जलिबन्धं शिरस्यारोपयन् 'नमो जिणाणं' 4 इति भणन् प्रणमन् मनसश्चैकाग्र्यं कुर्वन् इति पञ्चविधाभिगमेन नैषेधिकीपूर्वं प्रविशति । यदार्षम् सचित्ताणं दव्वाणं विसरणयाए अचित्ताणं दव्वाणं अविउसरणयाए एगल्लसाडएणं उत्तरासंगेणं चक्खुफासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं ति । राजादिस्तु चैत्यं प्रविशंस्तत्कालं राजचिह्नानि त्यजति । यत:___ अवहट्ट रायककुहाई पंच वररायककुहरूवाइं । खग्गं छत्तो आहण मउडं तह चामराओ अ॥ अग्रद्वारप्रवेशे मनोवाक्कायैर्गृहव्यापारो निषिध्यते, इति ज्ञापनार्थं नैषेधिकीत्रयं क्रियते, परमेकैवैषा गण्यते, गृहादिव्यापारस्यैकस्यैव निषिद्धत्वात् । ततो मूलबिम्बस्य प्रणामं कृत्वा, सर्वं हि प्रायेणोत्कृष्टं वस्तु कल्याणकामैर्दक्षिणभाग एव विधेयमित्यात्मनो दक्षिणाङ्गभागे मूलबिम्बं कुर्वन् ज्ञानादित्रयाराधनार्थं प्रदक्षिणात्रयं दद्यात् । उक्तञ्च 'तत्तो णमो जिणाणंति भणिअ अद्धोणयं पणामं च । काउं पंचंगं वा भत्तिब्भरनिब्भरमणेणं ॥ (१८९) पूअंगपाणि परिवारपरिगओ गहिरमहुरघोसेणं । पढमाणो जिणगुणगणनिबद्धमंगलथुत्ताई ॥ (चै० वं० महा १९०) करधरिअजोगमुद्दो, पए पए पाणिरक्खणाउत्तो । दिज्जा पयाहिणतिगं, एगग्गमणो जिणगुणेसु ॥ (१९१) गिहचेइएसु न घडइ, इअरेसु वि जइवि कारणवसेण । तहवि न मुंचइ मइमं, सयावि तक्करणपरिणामं ॥ (१९२) १. अद्धावणयपणामं तत्तो काऊण भुवणनाहस्स ।
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy