________________
|
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAAAAAAAAAAA
महामर्दलं । मृदङ्गं लघुमर्दलं । नान्दी मृदङ्गमेकतः सङ्कीर्णमन्यतो विस्तृतं । आलिङ्गो मुरजविशेषः । कुस्तुम्बश्चर्मावनद्ध थुङः । मर्दलमुभयतः समं । विपञ्ची त्रितन्त्री वाणा । बल्लकी सामान्यतो वीणा । परिवादिनी सप्ततन्त्री वीणा । महती शततन्त्री वीणा । तुम्बवीणा तुम्बयुक्तवीणा । मुकुन्दो मुरजविशेषो योऽतिलीनं प्रायो वाद्यते । हुडुक्का प्रसिद्धा । डिडिभः प्रस्तावनासूचकपणवविशेषः । कडम्बा करटिका । दर्दरकः प्रसिद्धः । स लघुः दर्दरिका । तलो हस्ततलः । वाली तूणविशेषो मुखवाद्यं । बन्धूकस्तूणविशेषः । शेषभेदा लोकाझेयाः । सर्वेऽप्यातोद्यभेदा एकोनपञ्चाशदातोद्यभेदेष्वन्तर्भवन्ति । यथा वंशे वालीवेणुपरिलीबन्धूकातोद्यानि । शङ्खशृङ्गशङ्खिकासुरमुखीपेयापरपरिकासु गाढं ध्मायमानासु, पटहपणवेष्वाहन्यमानेषु, भम्भाहोरम्भाष्वास्फाल्यमानासु, भेरीझल्लरीदुन्दुभिषु ताड्यमानासु, मुरजमृदङ्गनान्दीमृदङ्गेष्वालप्यमानेषु, आलिङ्गकुस्तुम्बगोमुखीमर्दलेषु बलात्ताड्यमानेषु, विपञ्चीवीणावल्लकीषु मूळमानासु, भ्रामरीषड्भ्रामरीपरिवादिनीषु स्पन्द्यमानासु बब्बीसासुघोषानन्दिघोषासु सार्यमाणासु, महतीकच्छपिचित्रवीणासु कुट्यमानासु, आमोटझंझानकुलेष्वामोट्यमानेषु, तूणतुम्बवीणासु स्पृश्यमानासु, मुकुन्दहुडुक्काचिच्चिकीषु मूळमानासु, करटीडिंडिमकिणितकडंबासु, वाद्यमानासु, दर्दर-दर्दरीकुस्तुम्ब-कलशिकासु बाढं ताड्यमानासु, तलताल-कांस्यतालासु वाद्यमानासु, रिगिसिका-लत्तिका-मकरिका-शिशुमारिकासु घjमाणासु, वंश-वेणु-वाली-पिरली-बन्धूकेषु फुक्यमानेषु, ते सर्वे दिव्यकन्याकुमाराः समकं गायन्ति नृत्यन्ति। [द्वात्रिंशद्] नाटकनामान्यमूनि (१) स्वस्तिक-श्रीवत्स-नन्द्यावर्त्त-वर्द्धमानक-भद्रासन-कलश-मत्स्यदर्पणरूपाष्टमाङ्गलिक्यभक्तिविचित्र (२)
१४३