________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
सोलसकोडाकोडी, सत्तत्तरि हुँति कोडिलक्खा य । कोडिसहस्स बिसत्तरि, कोडिसयं सट्ठिकोडीओ ॥ नाडगपत्ते संखा, भणिआ पभणामि नट्टरूवाणं । पणसयकोडाकोडी, छत्तीसं कोडिकोडीओ ॥ सगसीइकोडीलक्खा, नवकोडिसहस्स कोडिसयमेगं । कोडीण वीससंखा, आवस्सयचुन्निए भणिया ॥
प्रासादे प्रासादेऽष्टाग्रमहिषीयुत इन्द्रः, तत्सङ्ख्या तु कमलवत् । इन्द्राणीसङ्ख्या त्वियं, त्रयोदशसहस्राः कोट्यः, सप्तसप्ततिलक्षाः अष्टाविंशतिश्च सहस्राः । एकैकस्मिन् नाटके समानरूपशृङ्गारनाट्योपकरणा अष्टोत्तरं शतं दिव्यकुमारा अष्टोत्तरं शतं दिव्यकन्याश्च स्युः । एवं शङ्ख-शृङ्ग-शङ्खिका-पेया-परिपरिका-पणव-पटह-भम्भा-होरम्भा-भेरी-झल्लरी-दुन्दुभि-मुरजमृदङ्ग-नान्दीमृदङ्ग-आलिङ्ग-कुस्तुम्ब-गोमुख-मर्दल-विपञ्ची-बल्लकी-भ्रामरी-षट्भ्रामरी-परिवादिनी-'बव्वीसा-सुघोषानन्दिघोषा-महती-कच्छपी-चित्रवीणा-आमोट-झंझा-नकुल-तूणी-तुम्बवीणा-मुकुन्द-हुडुक्का-चिच्चिकी-करटी-डिडिभकिणित-कडम्बा-दर्दरक-दर्दरिका-कुस्तुम्ब-कलशिका-तलताल-कांस्यताल-रिगिसिका-मकरिका-शिशुमारिका-वंश-वालीवेणु-परिली-बन्धूकप्रमुखविधवाद्यवादकाः प्रत्येकमष्टोत्तरशतं । शङ्खिका लघुशङ्खः किञ्चित्तीक्ष्णस्वरः, शङ्खस्तु गम्भीरस्वरः । पेया महाकाहला । परिपरिका कोलिकपुटावनद्धमुखवाद्यं । पणवः पटहविशेषो भाण्डपटहो । भम्भा ढक्का । होरम्भा महाढक्का । भेरी ढक्काकृति वाद्यविशेषः । झल्लरी चौवनद्धा विस्तीर्णवलयाकारा । दुन्दुभिः भेर्याकारं सङ्कटमुखं देवतोद्यं । मुरजो
१. पेखा इति को० ह० प्र० पाठः । २. बलवीसा इति को० ह० प्र० पाठः ।
१४२