________________
प्रथम: प्रकाशः
पूजयित्वा वक्ष्यमाणाभिरङ्गाग्रभावपूजाभिरभ्यर्च्य संवरणं प्रत्याख्यानं प्राक् कृतमकृतं वा यथाशक्ति करोति देवसाक्षिकमुच्चारयतीति पञ्चमगाथार्थः ॥५॥ ततः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAAAAAAAAAAA
विहिणा जिणं जिणगिहे, गंतुं अच्चेइ उचिअचिंतरओ ।
उच्चरइ पच्चक्खाणं, दढपंचाचारगुरुपासे ॥६॥ 'विहिणात्ति' विधिनेति पदं सर्वत्रापि योज्यम् । ततो विधिना जिनगृहे गत्वा विधिना, 'उचितचिन्तारतो' विधिना जिनमर्चयति । विधिश्चायं, यदि राजादिमहद्धिः तदा सव्वाए इड्डीए, सव्वाए दित्तीए, सव्वाए जुईए, सव्वबलेणं,
सव्वपोरिसेणं इत्यादिवचनात् प्रभावनानिमित्तं महा देवगृहे याति । यथा दशार्णभद्रनृपः, तथा श्रीवीरं वन्दे यथा प्राक् 4 केनापि न वन्दितः इत्यहङ्कृतिकृतपरमा सर्वाङ्गीणशृङ्गारसुभगगजादिचतुरङ्गसैन्यदन्तरूप्यस्वर्णमयपञ्चशतीपर्यङ्किकाधिरूढान्तःपुरादिरूपया श्रीवीरं वन्दितुमागतः । तन्मदापनोदाय सौधर्मेन्द्रः श्रीवीरं वन्दितुमागच्छन् दिव्यद्धि विचक्रे । उक्तञ्च वृद्धर्षिमण्डलस्तवे
चउसट्ठि करिसहस्सा, पणसय बारससिराइं पत्तेअं । कुंभे अड अड दंता, दंतेसु अ वावि अट्ठ ॥ अट्ठट्ठ लक्खपत्ताई, तासु पउमाई हुँति पत्तेयं । पत्ते पत्ते बत्तीस, बद्धनाडयविही दिव्वो ॥
१४०