________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
श्वेतमेव कार्यम् । उदायनृपराज्ञीप्रभावतीप्रभृतीनामपि धौतांशुकं श्वेतं निशीथादावुक्तं । दिनकृत्यादावपि-सेयवत्थनिअंसणोत्ति क्षीरोदकांशुकाद्यशक्तावपि दुकूलादि धौतिकं विशिष्टमेव कार्यम् । यदुक्तं पूजाषोडशके-सितशुभवस्त्रेणेति । तद्वृत्तिर्यथासितवस्त्रेण शुभवस्त्रेण च, शुभमिह सितादन्यदपि पट्टयुग्मादि, रक्तपीतादिवर्णं परिगृह्यते इति । एगसाडिअं उत्तरासंगं करेइ इत्याद्यागमप्रामाण्यादुत्तरीयमखण्डमेव कार्यं न तु खण्डद्वयादिरूपम् । न च दुकूलं भोजनादिकरणेऽपि सर्वदा पवित्रमेवेति लोकोक्तिरत्र प्रमाणयितव्या, किन्त्वन्यधौतिकवद् दुकूलमपि भोजनमलमूत्राशुचिस्पर्शवर्जनादिना सत्यापनीयं, व्यापारणानुसारेण पुनः पुनर्धावनधूपनादिना च पावनीयं, धौतिकं च स्वल्पवेलमेव व्यापार्य, प्रस्वेदश्लेष्मादि च धौतिकेन न स्फेटनीयम् अपावित्र्यप्रसक्तेः, व्यापारितवस्त्रान्तरेभ्यश्च पृथङ् मोच्यं, तच्च परसत्कं प्रायो वर्जनीयं, विशिष्य च बालवृद्धस्त्र्यादिसत्कं । श्रूयते हि कुमारपालनृपस्योत्तरीयधौतिके मन्त्रिबाहडानुजचाहडेन व्यापारिते, राज्ञोक्तं,-'नव्यं मेऽर्पय' । तेनोक्तं-"दुकूलं नव्यमपि सपादलक्षे बम्बेरापुर्येव निष्पद्यते । तदीशव्यापारितमेव अत्रायाति । ततो राज्ञाऽव्यापारितमेकं मार्गितोऽपि बम्बेरानृपो यदा नाऽदात् तदा स राजा रूष्टः । चाहडं दानशौण्डत्वं न कार्यमित्युक्त्वा ससैन्यं तं प्रति प्रेषीत् । तृतीयप्रयाणे लक्षमार्गणेऽनर्पणात् श्रीगृहिकं निष्कास्य यथेच्छं दानी चतुर्दशशतीकरभीस्थभटैः सद्यो रात्रौ बम्बेरापुरमवेष्टयत् । तदा सप्तशतीकन्योद्वाहाऽविघ्नाय तां रात्रि विलम्ब्य प्रातर्दुर्ग जगृहे । सप्तस्वर्णकोटीरेकादशशतीं हयांश्च ललौ, दुर्गं घरट्टैश्चूर्णीचके । तत्र देशे स्वस्वाम्याज्ञां प्रवर्त्य सप्तशतीशालापतीन् पत्तने समहमानिन्ये । राज्ञोक्तं-तव स्थूललक्षतादोष एव दृग्दोषरक्षामन्त्रः, त्वं मत्तोऽप्यधिकव्ययः ।
१३८