________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
उच्छिट्टे फलकुसुमं, नेविज्जं वा जिणस्स जो देइ । सो नीअगोअकम्म, बंधइ पायन्नजम्मंमि ॥
तव पूर्वभवे या माताऽभूत्तयैकदा स्त्रीधर्मेऽपि देवपूजा कृता, तत्कर्मणा सैषा मातङ्गी जाता । ततो वैराग्याद् राज्ञा दीक्षा गृहीता । इत्यशौचे भूपतितपुष्पैश्च देवपूजायां मातङ्गकथा ॥ अतो भूपतितं पुष्पं सुगन्ध्यपि देवस्य नारोप्यम् । स्वल्पेऽप्यपावित्र्ये देवानां नाभ्यर्चनीयम् । विशिष्य चोच्छिष्टिदिने स्त्रीभिबृंहदाशातनादिदोषात् । ततः पवित्रमृदुगन्धकाषायिकाद्यंशुकेनाऽङ्गरूक्षणपौतिकमोचनपवित्रवस्त्रान्तरपरिधानादियुक्त्या क्लिन्नाध्रिभ्यां भूमिमस्पृशन् पवित्रस्थानमागत्योत्तराभिमुखः सन्धत्ते' दिव्यं नव्यमव्यङ्गमकीलितं पृथुलं श्वेतांशुकद्वयम् । यतः
विशुद्धि वपुषः कृत्वा यथायोगं जलादिभिः । धौतवस्त्रे च सीते सिते] द्वे विशुद्धे धूपधूपिते ॥ लोकेऽप्युक्तं-न कुर्यात्सन्धितं वस्त्रं देवकर्मणि भूमिप ! । न दग्धं न तु वैच्छिन्नं परस्य तु न धारयेत् ॥ कटिस्पृष्टं तु यद्वस्त्रं पुरीषं येन कारितम् । समूत्रमैथुनं चापि तद्वस्त्रं परिवर्जयेत् ॥ एकवस्त्रो न भुञ्जीत न कुर्याद्देवतार्चनम् । न कञ्चुकं विना कार्या देवार्चा स्त्रीजनेन तु ॥ एवं हि पुंसां वस्त्रद्वयं स्त्रीणां च वस्त्रत्रयं विना न कल्पते देवार्चादि । धौतवस्त्रं च मुख्यवृत्त्याऽतिविशिष्टं क्षीरोदकादिकं
१३७
१. संव्यवयते इति को० ह० प्र० पाठः ।