________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
लूताऽऽस्यतन्तुगलिते ये बिन्दौ सन्ति जन्तवः । सूक्ष्मा भ्रमरमानास्ते नैव मान्ति त्रिविष्टपे ॥ इत्यादि । भावस्नानमाहध्यानाम्भसा तु जीवस्य सदा यच्छुद्धिकारणम् । मलं कर्म समाश्रित्य भावस्नानं तदुच्यते ॥ (अष्ट० २-६)
कस्यचित् स्नाने कृतेऽपि यदि गडुक्षतादि स्रवति, तदा तेनाङ्गपूजा स्वपुष्पचन्दनादिभिः परेभ्यः कारयित्वा अग्रपूजा भावपूजा च स्वयं कार्या, वपुरपावित्र्ये प्रत्युताशातनासम्भवेन स्वयमङ्गपूजाया निषिद्धत्वात्, उक्तञ्च
निःशूकत्वादशौचोऽपि देवपूजां तनोति यः । पुष्पैर्भूपतितैर्यश्च भवतः श्वपचाविमौ ॥१॥
कामरूपपत्तने मातङ्गस्यैकस्य पुत्रो जातः । स जातमात्र एव पूर्वभववैरिणाव्यन्तरेणाऽ पहृत्य वने मुक्तः । इतश्च कामरूपपत्तनाधिपो राजा राजपाटिकायां निर्गतः । वने स बालको दृष्टः । अपुत्रत्वेन गृहीतः पालितः 'पुण्यसार' इति नाम दत्तम् । स उद्यौवनो जातः । राजा तस्मै राज्यं दत्वा दीक्षां जग्राह । कालेन केवली जातः । कामरूपे समागतः । पुण्यसारो वन्दनाय गतः । पौराः सर्वे समागताः । पुण्यसारजननी मातङ्ग्यपि तत्रायाता । राजानं दृष्ट्वा तस्याः स्तन्यप्रस्रवो जातः । राज्ञा कारणं पृष्टः केवली प्राह-“हे राजन् ! एषा तव माता, मया त्वं वने पतितो लब्धः" । राज्ञा पृष्टं केन कर्मणाऽहं मातङ्गो जातः? ज्ञानी प्राह-पूर्वभवे त्वं व्यवहारी अभूः । त्वयैकदा जिनं पूजयता पुष्पं भूमौ पतितं देवस्याऽनारोप्यं जानताऽप्यवज्ञयाऽऽरोपितं, तेन त्वं मातङ्गो जातः । यतः
१३६