________________
प्रथमः
प्रकाशः
१३५
सच
पूआए कायवहो पडिकुट्ठो सो उ किन्तु जिणपूआ । सम्मत्तसुद्धि उत्ति भावणीआ उ निरवज्जा ॥
एवं च देवपूजाद्यर्थमेव गृहस्थस्य द्रव्यस्नानमनुमतं तेन द्रव्यस्नानं पुण्यायेति यत्प्रोच्यते तन्निरस्तं मन्तव्यम् । | तीर्थविहितेनापि स्नानेन हि देहस्यैव काचिच्छुद्धिः स्यात्, न तु जीवस्यांऽशतोऽपि । उक्तञ्च स्कन्दपुराणे काशीखण्डे षष्ठाध्याये
मृदो भारसहस्त्रेण जलकुम्भशतेन च । न शुध्यन्ति दुराचाराः स्नातास्तीर्थशतैरपि ॥
जायन्ते च म्रियन्ते च जलेष्वेव जलौकसः । न च गच्छन्ति ते स्वर्गमविशुद्धमनोमलाः ॥
चित्तं शमादिभिः शुद्धं वदनं सत्यभाषणैः । ब्रह्मचर्यादिभिः काय: शुद्धो गङ्गां विनाप्यसौ ॥ चित्तं रागादिभिः क्लिष्टमलीकवचनैर्मुखम् । जीवहिंसादिभिः कायो गङ्गा तस्य पराङ्मुखी ॥ परदारपरद्रव्यपरद्रोहपराङ्मुखः । गङ्गाऽप्याह कदागत्य मामयं पावयिष्यति ॥
अत्र ज्ञातम्, यथैकः कुलपुत्रो गङ्गादौ गच्छन् मात्रोचे, " वत्स ! यत्र त्वं स्नासि तत्र मे तुम्बमपि स्नापयेः" इत्युक्त्वा | तदर्पितम्, सोऽपि तल्लात्वा तथा कुर्वन् गङ्गादौ गत्वा गृहे प्राप्तः । तत्तुम्बशाकं मात्रा तस्मै परिवेषितम् । तेनोक्तं 'भृशं कटु' । मात्रोक्तं, 'यद्यस्य स्नानशतैः कटुत्वं न गतं तदा तैस्ते पापं कथं गतम् ? तद्धि क्रियातपोभिरेव याति' ततः सोऽपि प्रबुद्धः । स्नाने चासङ्ख्यजीवमयजलशैवलाद्यनन्तजन्तूनामगलितजले तदाश्रितपूतरादित्रसानां विराधनया सदोषत्वं प्रतीतं जलस्य जीवमयत्वं च लोकेऽप्युक्तम् । यदुत्तरमीमांसा
श्राद्धविधिप्रकरणम्