________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
रते वान्ते चिताधूमस्पर्शे दुःस्वप्नदर्शने । क्षौरकर्मण्यपि स्नायाद् गलितैः शुद्धवारिभिः ॥ अभ्यक्तस्नाताशितभूषितयात्रारणोन्मुखैः क्षौरम् । विद्यादि निशासंध्यापर्वसु नवमेऽह्नि च न कार्यम् ॥ कल्पयेदेकशः पक्षे रोमश्मश्रुकचान्नखान् । न चात्मदशनाग्रेण स्वपाणिभ्यां च नोत्तमः ॥ स्नानं च वपुःपावित्र्यसुखकरत्वादिना भावशुद्धिहेतुः । उक्तञ्च द्वितीयेऽष्टकप्रकरणेजलेन देहदेशस्य क्षणं यच्छुद्धिकारणम् । प्रायोऽन्यानुपरोधेन द्रव्यस्नानं तदुच्यते ॥ (अष्ट० २-२)
देहदेशस्य त्वङ्मात्रस्यैव प्रभूतकालं, प्रायः शुद्धिहेतुर्न त्वेकान्तेन तादृग्रोगग्रस्तस्य क्षणमप्यशुद्धः, प्रक्षालनाऽर्हमलादन्यस्य मलस्य कर्णनासाद्यन्तर्गतस्याऽनुपरोधेनाऽप्रतिषेधेन, यद्वा प्रायो जलादन्येषां प्राणिनामनुपरोधेन अव्यापादनेन द्रव्यस्नानं बाह्यस्नानमित्यर्थः ।
कृत्वेदं यो विधानेन देवतातिथिपूजनम् । करोति मलिनारम्भी तस्यैतदपि शोभनम् ॥ (अष्ट० २-३) विधाने-विधिना, अतिथि:-साधुः, मलिनारम्भी-गृहस्थः, द्रव्यस्नानस्य शोभनत्वे हेतुमाहभावशुद्धेनिमित्तत्वात्तथाऽनुभवसिद्धितः । कथञ्चिद्दोषभावेऽपि तदन्यगुणभावतः ॥ युग्मम् ॥ (अष्ट० २-४) दोषोऽप्कायविराधनादिः, तस्माद्दोषाद् सद्दर्शनशुद्धिलक्षणः । यदुक्तं
१३४