________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
उपवासे तथा श्राद्धे न कुर्याद्दन्तधावनम् । दन्तानां काष्ठसंयोगो हन्ति सप्तकुलानि वै ॥ ब्रह्मचर्यमहिंसा च सत्यमामिषवर्जनम् । व्रते चैतानि चत्वारि चरितव्यानि नित्यशः ॥ असकृज्जलपानात्तु ताम्बूलस्य च भक्षणात् । उपवासः प्रदूष्येत दिवा स्वापाच्च मैथुनात् ॥
स्नानमप्युत्तिङ्ग-पनक-कुन्थ्वयाद्यसंसक्त-वैषम्य-शुषिराद्यदूषित-भूभागे परिमितवस्त्रपूतजलेन सम्पातिमसत्त्वरक्षणादियतनया कुर्यात् । उक्तञ्च दिनकृत्ये
तसाइजीवरहिए भूमिभागे विसुद्धए । फासुएणं तु नीरेणं, इअरेणं गलिएण उ ॥ काऊणं विहिणा पहाणंति । (२३) व्यवहारशास्त्रे त्वेवमुक्तंनग्नाऽऽतः प्रोषितायातः सचेलो भुक्तभूषितः । नैव स्नायादनुव्रज्य बन्धून् कृत्वा च मङ्गलम् ॥ अज्ञाते दुष्प्रवेशे च मलिनैर्दूषितेऽथवा । तरुच्छन्ने ससेवाले न स्नानं युज्यते जले ॥ स्नानं कृत्वा जलैः शीतैर्भोक्तुमुष्णं न युज्यते । जलैरुष्णैस्तथा शीततैलाभ्यङ्गश्च सर्वदा ॥ स्नातस्य विकृता छाया दन्तघर्षः परस्परम् । देहे च शवगन्धश्चेन्मृत्युस्तद्दिवसत्रये ॥ स्नातमात्रस्य चेच्छोषो वक्षस्यघिद्वयेऽपि च । षष्ठे दिने तदा ज्ञेयं पञ्चत्वं नात्र संशयः ॥
ससस सससस सससस सससससस ससस
१३३