________________
प्रथमः प्रकाशः
१३२
व्यतिपाते खेवरि सङ्क्रान्तौ ग्रहणे न तु । दन्तकाष्ठं 'नवाष्टैकभूतपक्षान्तषड्धुषु ॥ अभावे दन्तकाष्ठस्य मुखशुद्धिविधिः पुनः । कार्यो द्वादशगण्डूषैर्जिह्वोल्लेखस्तु सर्वदा ॥ विलिख्य रसनां जिह्वानिर्लेखिन्या शनैः शनैः । शुचिप्रदेशे प्रक्षाल्य दन्तकाष्ठं पुरस्त्यजेत् ॥ संमुखं पतितं स्वस्य शान्तानां ककुभां च तत् । ऊर्ध्वस्थं च सुखाय स्यादन्यथा दुःखहेतवे ॥ ऊर्ध्वं स्थित्वा क्षणं पश्चात् पतत्येद्यदा पुनः । मिष्टाहारस्तदा देश्यस्तद्दिने शास्त्रकोविदैः ॥ कासश्वासजराजीर्णशोकतृष्णास्यपाकयुक् । तन्न कुर्याच्छिरोनेत्रहृत्कर्णावयवानपि ॥ केशप्रसाधनं नित्यं कारयेदथ निश्चलः । कराभ्यां युगपत् कुर्यात्स्वोत्तमाङ्गे स्वयं न तत् ॥ तिलकं द्रष्टुमादर्शो मङ्गलाय च वीक्ष्यते । दृष्टे देहे शिरोहीने मृत्युः पञ्चदशे दिने ॥
उपवासपौरुष्यादिप्रत्याख्यानिनस्तु दन्तधावनादि विनापि शुद्धिरेव, तपसो महाफलत्वात् । लोकेऽप्युपवासादौ दन्तकाष्ठादि
विनापि देवार्चादिकरणात् । निषिद्धं च लौकिकशास्त्रेऽप्युपवासादौ दन्तकाष्ठादि । यदुक्तं विष्णुभक्तिचन्द्रोदये
प्रतिपद्दर्शषष्ठीषु मध्याह्ने नवमीतिथौ । सङ्क्रान्तिदिवसे प्राप्ते न कुर्याद्दन्तधावनम् ॥
१. न चाष्टौक इति को० ह० प्र० पाठः ।
श्राद्धविधिप्रकरणम्