________________
प्रथमः प्रकाशः
१३१
***
कम्मभूमीसु छप्पन्नाइ अंतरदीवेसु गब्भवक्वतिअमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा वंतेसु वा पित्तेषु वा सुक्केसु वा सुक्कसोणिएसु वा सुक्कपुग्गलपरिसाडेसु वा विगयजीवकलेवरेसु वा थीपुरिससंजोएसु वा नगरनिद्धमणेसु वा सव्वेसु वा चेव असुइठाणेसु सम्मुच्छिममणुस्सा संमुच्छंति, अंगुल - असंखिज्जभागमित्ताए ओगाहणाए असन्नी मिच्छद्दिट्ठी अन्नाणी सव्वाहिं पज्जत्तीहिं अपज्जत्तगा अंतमुहुत्तद्धाउआ चेव कालं पकरंति त्ति ।
'असुइठाणेसु त्ति' अन्यान्यपि यानि कानिचिन्मनुष्यसंसर्गादशुचीनि तेषु सर्वेष्विति तद्वृत्तौ ।
दन्तधावनाद्यपि निरवद्यस्थाने प्रासुकज्ञातमृदुदन्तकाष्ठेन दन्तदाहेतुतर्जनीघर्षेण वा दन्तादिमल धूल्याच्छादनादियतनयैव कुर्यात् । व्यवहारशास्त्रे त्वेवमुक्तं
दन्तदाय तर्जन्या घर्षयेद्दन्तपीठिकाम् । आदावतः परं कुर्यात् दन्तधावनमादरात् ॥ यद्याद्यवारिगण्डूषाद् बिन्दुरेकः प्रधावति । कण्ठे तदा नरैर्ज्ञेयं शीघ्रं भोजनमुत्तमम् ॥ अवक्राऽग्रन्थि सत्कूर्चं सूक्ष्माग्रं च दशाङ्गुलम् । कनिष्ठाग्रसमस्थौल्यं ज्ञातवृक्षं सुभूमिजम् ॥ कनीष्ठिकाऽनामिकयोरन्तरे दन्तधावनम् । आदाय दक्षिणां दंष्टां वामां वा संस्पृशंस्तले ॥ तल्लीनमानसः स्वस्थो दंतमांसव्यथां त्यजन् । उत्तराभिमुखः प्राचीमुखो वा निश्चलासनः ॥ दन्तान् मौनपरस्तेन घर्षयेद्वर्जयेत्पुनः । दुर्गन्धं शुषिरं शुष्कं स्वाद्वम्लं लवणं च तत् ॥ चतुर्भिः कलापकम् ।।
श्राद्धविधिप्रकरणम्