________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
A
उदए कप्पूराई, फलिसुत्ताईणि सिंगबेर गुले । न य ताणि खविंति खुहं, उवगारित्ताउ आहारो ॥ क०नि० ६००१ ।।
उदके कर्पूरादिकं आम्रादिफलेषु सुत्रादीनि द्रव्याणि, शृङ्गबेरे-शुण्ठयां गुड उपयुज्यते, न चैतानि कर्पूरादीनि क्षुधां क्षपयन्ति, परमुपकारित्वादाहार उच्यते ।
अहवा जं भुक्खत्तो, कद्दमउवमाइ पक्खिवइ कोट्टे । सव्वो सो आहारो, ओसहमाई पुणो भइओ ॥ क०नि० ६००२ औषधादिकं तु किञ्चिदाहारः किञ्चिदनाहारः इत्यर्थः, तत्र शर्करादिकमौषधमाहारः सर्पदष्टादेर्मृत्तिकादिकमौषधमनाहारः । जं वा भुक्खत्तस्स उ, संकसमाणस्स देइ आसायं । सव्वो सो आहारो, अकामऽणिटुं चऽणाहारो ॥ क०नि० ६००३
यद्वा द्रव्यं बुभुक्षार्तस्य सङ्कर्षतो ग्रसमानस्य भक्षयत आस्वादं प्रयच्छति स सर्व आहारः । यत् पुनरकाममभ्यवहरामीत्येवमनभिलषणीयम् अनिष्टं च जिह्वाया अरुच्यम् ईदृशं सर्वमनाहारो भण्यते । तच्चानाहारमिदम्
अणाहारो मोअछल्लीमूलं च फलं च होइ अणाहारो । क०नि० ६००४
पूर्वार्द्धम् । मोकं कायिकी छल्ली=निम्बादित्वक, मूलं पञ्चमूलादिकं, फलं च आमलक-हरीतक-बिभीतकादिकमेतत्सर्वमनाहारो भवतीति चूणिः । निशीथचूर्णौ तु या निम्बादीनां छल्ली त्वक्, यच्च तेषामेव निम्बोलिकादिकं फलं, यच्च तेषामेव मूलमेवमादिकं सर्वमप्यनाहार इति । प्रत्याख्यानोच्चारे च पञ्चस्थानानि, आद्यस्थाने नमस्कारसहितादिकालप्रत्याख्यानं
१२७