________________
प्रथमः प्रकाशः
१२८
| सर्वं प्रायश्चतुर्विधाहारम् १ । द्वितीयस्थाने विकृतिनिर्विकृत्याचामामाम्लोच्चारः विकृतिप्रत्याख्यानं चास्वीकृत - विकृतिनैयत्यानामपि प्रायेणाऽभक्ष्यविकृतिचतुष्कत्यागात्सर्वेषां स्यात् २। तृतीयस्थाने एकट्ट्यासनादिद्वित्रिचतुर्विधाहारम् ३ । चतुर्थस्थाने पाणस्सेत्यादि ४ । पञ्चमस्थानके देशावकाशिकव्रतं प्राग्गृहीतसचित्तादिचतुर्दशनियमसङ्क्षेपरूपमुच्चार्यते प्रातः ५। सायं च उपवासाचामाम्लनिर्विकृतिकानि प्रायस्त्रिचतुर्विधाहाराणि, अपवादात्तु निर्विकृतिकादि पौरुष्यादि च द्विविधाहारमपि स्यात् । तदाहु:
साहूणं रयणीए, नवकारसहिअं चउव्विहाहारं । भवचरिमं उववासो, अंबिल तिचउव्विहाहारं ॥ सेसा पच्चक्खाणा, दुहतिहचउहावि हुंति आहारे । इअ पच्चक्खाणेसु, आहारविगप्पणा नेआ ॥
निर्विकृतिकाचामाम्लादौ कल्प्याकल्प्यविभागः स्वस्वसामाचारीतो ज्ञेयः सिद्धान्ताद्यनुसारेण । अनाभोगसहसाद्याकारव्यक्त्यादिस्वरूपं च प्रत्याख्यानभाष्याद्युक्तं सम्यग् हृदि निधेयम्, अन्यथा प्रत्याख्यानस्य शुद्धत्वाद्यसम्भवात् ।
एवं सूत्रगाथोत्तरार्द्ध 'पडिक्कमिअत्ति' पदं सप्रसङ्गं व्याख्यातम्, अथाग्रतो व्याख्यायते - सूईपूईअ इत्यादि, शुचिरिति मलोत्सर्गदन्तधावनजिह्वालेखनगण्डूषकरणसर्वदेशस्नानादिना पवित्रः सन्नित्यनुवादपरं, लोकसिद्धो ह्ययमर्थ इति नोपदेशपरं, | अप्राप्ते हि शास्त्रमर्थवत्, न हि मलिनः स्नायाद् बुभुक्षितोऽश्नीयादित्यत्र शास्त्रमुपयुज्यते । अप्राप्ते त्वामुष्मिके मार्गे शास्त्रोपदेशसाफल्यम् । एवमन्यत्रापि ज्ञेयम् । सावद्यारम्भेषु हि शास्तॄणां वाचनिकी अपि अनुमोदना न युक्ता । यदाहुः
सावज्जाणवज्जाणं, वयणाणं जो न जाणड़ विसेसं । वोत्तुंपि तस्स न खमं, किमं पुण देसणं काउं ॥
श्राद्धविधिप्रकरणम्