________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
अनाहारतया व्यवह्रियमाणानि, यथा-पञ्चागनिम्ब-मूत्र-गुडुची-कडु-किरिआतउं-अतिविष-कुडउ-चीड-सूकडी-रक्षा- हरिद्रा-रोहिणि-ऊपलोट-वज-त्रिफला-वाउलछल्लीत्यन्ये । धमासउ-नाहि-आसन्धि-रिंगणी-एलिओ-गुगूल-हरडादालि-वउणिबदरी-कन्थेरि-करीरमूल-पुंआड-बोड-थेरी-आछी-मजीठ-बोल-वीओ-कुंवारि-चित्रक-कुंदरुप्रभृत्यनिष्टास्वादं रोगाद्यापदि चतुर्विधाहारेऽप्येतानि कल्प्यानि । श्रीकल्पतवृत्तितुर्यखण्डेऽप्युक्तम्
परिवासिअ आहारस्स, मग्गणा (आहारो) को भवे अणाहारो । सूरि:-आहारो एगंगिओ, चउव्विहु जं वा आईइ तहि ॥
एकाङ्गिक:-शुद्ध एव क्षुधां शमयति, स आहारो ज्ञेयोऽत्र, सोऽशनादिश्चतुर्धा, यद्वा तत्राहारेऽन्यल्लवणादिकमयति प्रविशति | तदप्याहारो ज्ञेय इति । अथैकाङ्गिकं चतुर्विधमाहारं व्याचष्टे
कूरो नासेइ छुह, एगंगी तक्कउदगमज्जाई । खादिमफलमसाई साइम्मि महुफाणिताईणि ॥ क०नि० ५९९९ अथवा 'जं वाआईइ तहिति' पदं व्याख्यातिजं पुण खुहापसमणे, असमत्थेगंगि होइ लोणाई । तं पिअ होइ आहारो, आहारजुअं च विजुअं वा ॥ क०नि० ६०००
यत्पुनरैकाङ्गिक क्षुधाप्रशमनेऽसमर्थं परमाहारे उपयुज्यते, तदप्याहारे संयुक्तमसंयुक्तं वा आहारो भवति, तच्च लवणादिकं, तत्राऽशने लवण-हिंगु-जीरकादिकमुपयुज्यते ।
१२६ ।