________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
वटिका-ज्येष्ठीमधु-तज-तमालपत्र-एला-लवङ्ग-कोठी-विडंग-बिडलवण-अज्जंक-अजमोदा-कुलिञ्जण-पिप्पलीमूलचिणीकबाबा-कच्चूरक-मुस्ती-कंटासेलिओ-कर्पूर-संचल-हरडा-बिभीतक-कुम्भठवो-बब्बूल-धव-खदिर-खीजडादिछल्लीपत्र-पूग-हिङ्गुलाष्टक-हित्रेवीसओ-पञ्चकूल-पुष्करमूल-जवासकमूल-बावची-तुलसी-कपूरीकन्दादिकम् । जीरकं स्वभाष्यप्रवचनसारोद्धाराद्यभिप्रायेण स्वाद्यं, कल्पवृत्त्यभिप्रायेण तु खाद्यम् अजमकं खाद्यमिति केचित् ४। सर्वं स्वाद्यं एलाकर्पूरादिजलं च द्विविधाहारप्रत्याख्याने कल्पते । वेसण-विरिहाली-सोआ-कउठवडी-आमलागन्ठी-आम्बागोलीकउठीपत्र-लिम्बूईपत्रप्रमुखं स्वाद्यत्वादिना द्विविधाहारे न कल्पते, त्रिविधाहारे तु जलमेव कल्पते । तत्रापि फुङ्कानीरं सीकरीकर्पूर-एला-कत्थ-खदिर-चूर्ण-कसेल्लक-पाडलादिजलं च नीतरितं गालितं वा नान्यथा । शास्त्रेषु मधुगुडशर्कराखण्डाद्यपि स्वाद्यतया द्राक्षाशर्करादिजलं तक्रादि च पानकतया उक्तं, परं द्विविधाहारादौ न कल्पते । उक्तञ्च नागपुरीयगच्छप्रत्याख्यानभाष्ये
दक्खापाणाईअं पाणं तह साइमं गुडाईअं । पढिअं सुअम्मि तहवि हु तित्ती जणगंति नायरिअं॥
स्त्रियाः सम्भोगे चतुर्विधाहारं न भज्यते, बालादीनामोष्ठादिचर्वणे तु भज्यते, द्विविधाहारे तु तदपि कल्पते । प्रत्याख्यानं हि कावलिकाहारविषयमेव, न तु लोमाद्याहारविषयमपि, अन्यथोपवासाचामाम्लादेर्वपुरभ्यङ्गगडुकरम्बबन्धनादिनाऽपि भङ्गप्रसङ्गात् । न चैवं व्यवहारो, लोमाहारस्य निरन्तरं सम्भवेन प्रत्याख्यानाभावस्यैव प्रसङ्गात् ।
१. गोटी इति को० ह० प्र० पाठः ।
१२५