________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
एकवारभोजिनः प्रतिमासमेकोनत्रिंशद्, द्विवारभोजिनस्त्वष्टाविंशतिनिर्जला उपवासाः स्युरिति वृद्धाः । भोजनताम्बूलजल- | व्यापारणादौ हि प्रत्यहं घटीद्वयघटीद्वयसम्भवे मासे एकोनत्रिंशत्, घटीचतुष्टयघटीचतुष्टयसम्भवे त्वष्टाविंशतिरुपवासाः । यदुक्तं पद्मचरित्रे
भुंजइ अणंतरेणं, दुन्निउ वेलाउ जो नियोगेणं । सो पावइ उववासा अट्ठावीसं तु मासेणं ॥ इक्कंपि अह मुहुत्तं परिवज्जइ जो चउव्विहाहारं । मासेण तस्स जायइ, उववासफलं तु सुरलोए ॥ दसवरिससहस्साउ, भुंजइ सो (जो) अन्नदेवया भत्तो । पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं ॥ एवं मुहुत्तवुढ्ढी, उपवासे छठ्ठअट्ठमाईए । जो कुणइ जहाथाम तस्स फलं तारिसं भणिअं ॥
एवं युक्त्या ग्रन्थिसहितप्रत्याख्यानफलमप्यनन्तरोदितं भाव्यम् । प्रत्याख्यानं च सर्वं पुनः पुनः स्मर्त्तव्यं स्वस्वावधिपूर्ती च | पूर्ण मेऽमुकप्रत्याख्यानमित्यादि चिन्त्यम् । भोजनसमयेऽपि पुनः स्मर्त्तव्यमन्यथा जातु भङ्गाद्यपि स्यात् ।
अशनादिविभागश्चैवम्-अन्नपक्वान्नमण्डकसक्तुकादि सर्वं क्षुधोपशमसमर्थम् अशनं, तक्रोदकमद्यादि पानं, फलेक्षुपृथुकसुखभक्षिकादि खाद्यं, स्वाद्यं शुण्ठी-हरीतकी-पिप्पली-मरीच-जीरक-अजमक-जातिफल-जावित्री-कसेल्लक-कत्थक-खदिर
१२४
१. ठिओ इति को० ह० प्र० पाठः ।